________________
अधिकार १२ / श्लोक २६३ / चित्रसम्भूतिकथा (ब्रह्मदत्तचक्रिकथा)
२९७
प्रोक्तस्तेन स्ववृत्तान्त:, पृष्टो वरधनुस्तत: । मत्परोक्षेऽनुभूतं किं, सुखदुःखं त्वयापि हि ॥२३४॥ ततोऽसौ वक्तुमारब्धः, शृणु भो ब्रह्मनन्दन! । त्वां न्यग्रोधतले मुक्त्वा, गतोऽहं जलहेतवे ॥२३५।। दृष्टं चाटाट्यमानेन, मया रम्यं महासरः । ततोम्भ:पुटकैः कृत्वा, यावदेमि तवान्तिकम् ॥२३६।। तावच्च सहसा दृष्टो, भटैराबद्धकङ्कटैः । रुष्टैर्निर्भर्त्सनापूर्वं, ताडितश्च मुहुर्मुहुः ॥२३७॥ रेरे वरधनो ! क्वास्ते, ब्रह्मदत्त: प्रकथ्यताम् । एवं विवदमानेषु, न वेद्यीति मयोदितम् ॥२३८॥ ततस्तैस्ताड्यमानेन, भूयोभूयस्तरं मया। उक्तं भो भक्षितो दुष्ट-व्याघ्रकेण कुमारकः ॥२३९॥ यद्येवं तर्हि तद्देशं, दर्शयस्व ततो मया । शाठ्येनेतस्ततो भ्रान्त्वा, समेत्य च त्वदन्तिकम् ॥२४०॥ नश्यतामिति सज्ञायां, कृतायां त्वं प्रणष्टवान् । मयापि गुटिका क्षिप्ता, परिव्राजार्पिता मुखे ॥१४१।। जातश्च तत्प्रभावेण, काष्ठवद्गतचेतन: । मृतोऽयमिति विज्ञाय; गतास्तेऽपि भटास्तत: ॥२४२॥ मयापिसासमाकृष्टा, गुटिका मुखरन्ध्रत:। अन्विष्टस्त्वं मया भ्रान्त्वा, नच क्वापि विलोकित:॥२४३।। ततो मया महीपीठे, भ्राम्यता च विलोकित: । परिव्राट् सुन्दराकारो, गतश्चाहं तदन्तिके ॥२४४।। उक्तं च तेन भो वत्स!, वयस्योऽहं पितुस्तव । वसुभागाभिधस्तस्मा-दागच्छात्रोपविश्यताम्॥ तथा न ज्ञायते वत्स!, नष्ट: क्वापि पिता तव। माता च तव दीर्पण, क्षिप्ता मातङ्गपाटके ॥२४६॥ श्रुत्वेदं महता दुःख-प्राग्भारेण गृहीतवान् । तत: काम्पिल्यमागत्य, कृत्वा कापालिकाकृतिम् ।।२४७॥ वञ्चयित्वा च मातङ्गान्, संहृत्य जननीं तत: । मुक्त्वैकत्र वरे ग्रामे, तातमित्रस्य मन्दिरे ॥२४८॥ देवशर्माभिधानस्य, ब्राह्मणस्य यथाविधि । मातु: सौस्थ्यं विधायैवं, तदन्वेषणतत्परः ॥२४९।। महीपीठे भ्रमन्नद्य, कुमारेह समागतः । इत्थं च सुखदुःखादि, तत्र चिन्तयतोस्तयोः ॥२५०॥ समायात: पुमानेक-स्तेन चेदमुदीरितम् । भो भो कुमारकावत्र, ग्रामे दीर्घमहीपतेः ॥२५१॥ आगता भटसन्दोहा, युष्मदन्वेषणाकृते । अतोऽत्रैव युवाभ्यां तु, स्थातव्यं सुष्ठ गुप्तकम् ॥२५२॥ श्रुत्वेदं तौ तत: स्थाना-द्विनिष्क्रान्तौ शनै: शनै:! भ्राम्यन्तौ च महीपीठं, कौशाम्बीपुरमागतौ॥ कियन्त्यहानि तत्रापि, तिष्ठद्भ्यां च श्रुतं यथा । अहो कुमारमन्वेष्टुं, दीर्घयोधा इहागता: ॥२५४॥ ततश्चैतत्समाकर्ण्य, कौशाम्ब्या अपि निर्गतौ । भ्रमन्तौ च क्रमात्प्राप्तौ, पुरे राजगृहाभिधे॥२५५।। तद्बाह्यभूमिभागस्थे, एकस्मिन् सन्निवेशके । दृष्टं स्तम्भशताकीर्ण-मेकं वेश्मसुधासितम् ॥२५६।। प्रविष्टौ च तकौ तत्र, दृष्टे च द्वे वरस्त्रियौ । प्रौढं यौवनमारूढे, रूपश्रीकुलमन्दिरे ॥२५७॥ ताभ्यामपि समालोकि, सानन्दं ब्रह्मनन्दनः । वक्तुं च ते समारब्धे, स्वोपालम्भकया गिरा ॥२५८॥ युक्तं किं नु महापुंसां भ्रान्तुमेवं भवादृशाम् । सन्त्यज्य मादृशं लोकं, पत्यनुरक्तचेतसम् ॥२५९॥ अथोक्तं ब्रह्मदत्तेन, जनकोऽयमहो मया । त्यक्तोऽनुरक्तकोऽप्युच्चै-र्धाम्यता.मेदिनीतले ॥२६०॥ ताभ्यामुक्तं महाभाग !, कुर्वावयोरनुग्रहम् । आसनग्रहणात्ताव-त्तेनापि हि तथा कृतम् ॥२६१।। तत: कृत्वास्य सन्मानं. स्नानभोजनगोचरम् । उक्तं तत: स्ववृत्तान्तं, कथयावोऽवधार्यताम् ॥२६२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org