________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
9
I
अस्त्यत्र भारते क्षेत्रे, गिरिर्वैताढ्यनामकः । तस्य च दक्षिणश्रेण्यां नगरं शिवमन्दिरम् | २६३ | तत्र वह्निशिखो राजा, देवी विद्युच्छिखाभिधा । तस्याद्वे पुत्रिके आवां, बन्धुलोकस्य वल्लभे ॥ २६४॥ ज्येष्ठश्च ह्यावयोर्भ्राता, नाटयोन्मत्ताभिधानकः । अन्यदा मत्पिता याव - त्सार्धं मित्रेण तिष्ठति ॥ गोष्ठ्या चाग्निशिखाख्येन तावद्वयोमनि वीक्षते । अमरासुरसन्दोह - मष्टापदाद्रिसन्मुखम् ॥ वन्दनार्थं जिनेन्द्राणां प्रगच्छन्तमथ द्रुतम् । तं दृष्ट्वा सममावाभ्यां तातोऽपि मित्रसंयुतः ॥ २६७॥ चलितः क्रमतः श्रीमान्, सम्प्राप्तोऽष्टापदाचलम् । कर्पूरागुरुसत्पुष्प - सद्गन्धधूपनादिभिः ॥ २६८ ॥ सम्पूज्य जिनबिम्बानि, वन्दितानि विधानतः । त्रिश्च प्रदक्षिणीकृत्य दृष्टं निर्गच्छता ततः ॥ २६९ ॥ एकमशोकवृक्षाध-श्चारणप्रतियुग्मकम् । तत्सम्प्रणम्य सद्भक्त्या, सन्निषण्णस्तदन्तिके 1120011 साधुभ्यां च ततो धर्म-लाभेनानन्द्य पर्षदम् । संवेगजननीप्राज्या, प्रारब्धा धर्मदेशना ॥ २७९ ॥ यथा भो भो जना ! एष, भीमः संसारसागरः । जन्ममृत्युजरारोग-जलकल्लोलसङ्कुलः ॥ २७२॥ नानाप्रकारदुःखौघ-नक्रचक्रभयानकः । दूरपारो दुरुत्तारो, दुःखदायी निराश्रयः || २७३ || तथेह देहिनामायु- र्वायुवेगातिचञ्चलम् । जरारोगाद्यपायौघैः समाघ्रातं च यौवनम् ॥ २७४॥ कायोऽपि निकटापाय- प्रतिध्वंसनकर्मठः । किम्पाकफलसङ्कासाः, कामभोगाश्च दारुणाः || २७५॥ शक्रचापानुकारीदं, सौख्यं च विषयोद्भवम् । अस्थिरो बन्धुसम्बन्धः, सम्पदो विपदां पदम् ॥२७६॥ दुर्लभः सौख्यसंसर्गः सुप्राप्तो दुःखसङ्गमः । तदहो क्रियतां नित्यं, जैनधर्मे समुद्यमः ॥ २७७॥ एवमाकर्ण्य संलब्ध-सत्सम्यक्त्वादिसद्गुणाः । सर्वे निजनिर्जे स्थाने, गतवन्तः सुरादयः ॥ २७८॥ तत: प्रस्तावमासाद्य, तातमित्रेण जल्पितम् । अग्निशिखाभिधानेन, संयोज्य करपल्लवम् ॥ २७९ ॥ भगवन् ! कः पुमान्नेते, परिणेष्यति बालिके । साधुः प्राहैतयोर्भ्रातृ - घातं यः प्रकरिष्यति ॥२८०॥ तत एवं समाकर्ण्य, तातः श्याममुखोऽभवत् । अत्रान्तरे सखेदाभ्या - मावाभ्यामपि जल्पितम् ॥ २८९ ॥ ताताधुनैव साधुभ्यां प्रोक्तं संसारचेष्टितम् । तदलं कामसौख्येन, दुरन्तेनेदृशाऽऽवयोः ॥ २८२ ॥ कस्याप्यावां न दातव्ये, त्वयका तात ! सर्वथा । शुश्रूषां प्रकरिष्यावो, भ्रातुः स्वगृह एव हि ॥ २८३ ॥ तातेनाप्यावयोर्वाक्यं, प्रतिपन्नमिदं मुदा । ततश्चावां निजभ्रातृ-स्नेहतन्तुनियन्त्रिते ॥ २८४॥ तस्यैव प्रत्यहं स्नान - १ -भोजनादितनुस्थितिम् । विदधत्यौ च तिष्ठावो, यावदन्यत्र वासरे ॥ २८५ ॥ अस्मद्भ्रात्रा महीपीठे, भ्राम्यता प्रविलोकिता । कन्यका पुष्पवत्याख्या, तव मातुलपुत्रिका ॥ २८६ ॥ तद्रूपादिगुणाक्षिप्त-स्तां हृत्वा द्रागिहागतः । असहिष्णुश्च तद्दृष्टिं विद्यां साधयितुं गतः ॥ २८७॥ अत ऊर्ध्वं प्रविज्ञात-वृत्तान्ता यूयमेव हि । तथा भो भो महाभाग ! तस्मिन् काले त्वदन्तिके ॥ पुष्पवत्या समागत्य, सामपूर्वकमावयोः । कथितो भ्रातृवृत्तान्त-स्तं श्रुत्वा शोकनिर्भरे ।।२८९।। प्रवृत्ते रोदितुं प्रोच्चै, रोदयन्त्यौ रिपूनपि । संस्थापिते च सद्वाक्यैः, पुष्पवत्या सुकोमलैः ॥ २९०॥
२९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org