________________
अधिकार १२ / श्लोक २६३ / चित्रसम्भूतिकथा (ब्रह्मदत्तचक्रिकथा)
२९९
तथान्यच्च तया प्रोचे, धर्मोपदेशपूर्वकम् । यथा संस्मर्यतां सख्यौ, सन्मुनेस्तस्य तद्वचः ।।२९१।। मन्यतां भर्तृभावेन, ब्रह्मदत्तोऽधुना ध्रुवम् । ततो जातानुरागाभ्या-मावाभ्यां तत्प्रतिश्रुतम् ॥२९२।। पुष्पवत्या ततो गत्वा, शीघ्रं हर्षातिरेकत: । पताकायां सिताभायां, चालितायां मतिभ्रमात् ।।२९३।। प्रस्थितेषु तत: स्थाना-द्युष्मास्वन्यत्र कुत्रचित् । नानाविधपुरग्राम-सरिच्छैलादिसङ्कुले ॥२९४|| चिरं महीतले भ्रान्त्वा, युष्मदन्वेषणाकृते । यदनालोकिता यूयं, ताक्दुद्विग्नमानसे ॥२९५॥ अत्रायाते महाभाग !, त्वद्विरहाग्नितापिते । अत्र चातर्कितप्रेड-द्दत्तदृष्टिसमप्रभम् ।।२९६॥ पूरिताशं जनस्यास्य, सञ्जातं तव दर्शनम् । [आनन्ददायकं चात्र, बहुकालविलोकितम्] ॥२९७॥ तदहो यत्तदा काले, पुष्पवत्या प्रजल्पितम् । स्मर्यतां तन्महाभाग !, पूर्यतां नौ मनोरथाः ॥२९८।। एवमाकर्ण्य सानन्द-स्तदमस्त कुमारकः । परिणिन्ये च गन्धर्व-विवाहेन च ते द्रुतम् ॥२९९॥ स्थितो रात्रौ समं ताभ्यां, परमानन्दनिर्भरः । प्रभाते च बभाणैवं, कुमारस्ते वराङ्गने ॥३००॥ भद्रे ! पुष्पवतीपार्श्वे, इत: सम्प्रति गम्यताम् । स्थेयं तावच्च मे याव-द्राज्यलाभ: प्रजायते ॥३०१॥ एवं नाथ ! करिष्याव, इत्युक्त्वा त अगच्छताम् । कुमारं प्रेरयन्नेवं, ब्रूते वरधनुस्तत: ॥३०२।। यथा भो भो महासत्त्व!, शौर्यरत्नमहोदधे ! । कियन्तं कालमेवेत्थं, स्थातव्यं मुक्तविक्रमैः ॥३०३।। तयोश्चिन्तयतोरेवं, परस्परमनेकधा । गन्तुमुत्सुकयोश्चैवं, मधुमास: समागत: ।।३०४।। ततो महाप्रबन्धेन, प्रवृत्ते मदनोत्सवे । गते च नगरीलोके, रम्यारामवनादिषु ।।३०५।। ततस्तावपि सानन्दं, गतौ तत्र कुतूहलात् । अथ क्रीडारसोत्कर्षे, प्रवृत्ते सुष्ठ निर्भरे ॥३०६॥ क्रीडत्यनेकधा लोके, नानाक्रीडाभिरुच्चकैः । अत्रान्तरे मदोद्रेका-द्राजहस्ती विलोठित: ॥३०७॥ आलानस्तम्भमाभज्य, पातयित्वा च मेण्ठकम् । उर्वीकृतकरो हट्ट-गेहादीनि प्रभञ्जयन् ॥३०८॥ उन्मूलयंश्च वृक्षादी-नुच्छृङ्खलो निरङ्कुश: । इतश्चेतश्च वेगेन, भ्राम्यस्तत्र समागतः ॥३०९।।
जाते कोलाहले रौद्रे, नष्टो लोको दिशो दिशि।
इत्थं च सम्भ्रमे जाते, लोकानां हलबोलके तथा ॥३१०॥ तत्रैका कन्यका रूप-लसल्लावण्यशालिनी । भीतभीता प्रपश्यन्ती, चलत्तरलतारकम् ॥३११।। त्राणं विमार्गयन्ती च, वेपमानाङ्गयष्टिका । गता तस्य यमस्येव, हस्तिनो दृष्टिगोचरे ॥३१२।। ततो हाहारवो लोकैः, कृतस्तद्देशवर्तिभिः । पूत्कृतं च बृहच्छब्दै-स्तल्लोकेन ससाध्वसम् ॥३१३॥ अत्रान्तरे मनाक् तस्यां, गृहीतायां स वारण: । तर्जित: पुरत: स्थित्वा, कुमारेण सुनिष्ठुरम् ॥३१४|| विमोचिता च सा कन्या, ततो दुष्टमहागजात् । वलितश्च कुमारस्या-भिमुखं मत्सरी करी ॥३१५।। तत: सपदि सम्पिण्ड्य, कुमारेणोत्तरीयकम् । क्षिप्तं सोऽपि तदादायो-त्क्षिप्तवान् गगनाङ्गणे ॥३१६|| क्षणान्निष्पतितं भूमौ, तस्मिन् परिणते गजे । कुमारोऽप्यतिदक्षत्वा-दारूढस्तस्य कन्धरम् ॥३१७|| १ BPJC 1 °रका-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org