________________
३००
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
बद्धासनेन साक्रोशं, कुम्भदेशे स ताडित: । ततश्च मधुरैर्वाक्य-मत्सरं च विमोचितः ॥३१८।। साधुकारं तत: प्राप, उर्दुष्टं बन्दिभिस्तथा। नि:शेषजनमध्येऽत्र, कुमारो जयवानिति ॥३१९।। आलानस्तम्भमानीतो, हस्ती मोचितमत्सर: । आयातश्च नृपस्तत्र, विस्मयाबद्धमानस: ॥३२०॥ अनन्यरूपलावण्य-मनन्यवरविक्रमम् । राजा कुमारमालोक्य, जगादेदं सुविस्मित: ॥३२१॥ भो भो कोऽयं महासत्त्वो, महाभागो महायशा: । गाम्भीर्यधैर्यशौर्यादि-गुणरत्नमहोदधिः ॥३२२॥ तत: कुमारवृत्तान्त-मर्मविज्ञेन मन्त्रिणा । तदीयो नरनाथाय, प्रोक्तो व्यतिकरोऽखिल: ॥३२३॥ ततो राज्ञा सुतुष्टेन, स नीतो निजमन्दिरे । सगौरवं वरस्नान-भोजनादि च कारित: ॥३२४।। भुक्त्यन्ते च कुमाराय, राज्ञा दुहितरो निजा: । दत्ता वृत्तो विवाहश्च, महा शोभनेऽहनि ॥३२५॥ इत्थं सन्तिष्ठते याव-त्स वरधनुक: किल । दिनानि कतिचित्तत्र, ब्रह्मदत्तो यथासुखम् ॥३२६।। तावदेका समागत्य, प्रौढा नारीदमब्रवीत् । यथा भो भो कुमारास्ति, किञ्चिद्वक्तुं त्वया सह ॥३२७।। कुमारेणोदितं ब्रूहि, तत: सापि प्रगल्भवाक् । वक्तुमेवमुपक्रान्ता, सुष्टुपेशलया गिरा ॥३२८॥ अस्त्यत्रैव पुरे सार्थ-वाहो वैश्रमणाभिधः । तत्सुता श्रीमतिर्नाम, सर्वावयवसुन्दरा ॥३२९।। आबालकालत: सा च, मयैव प्रतिपालिता। कुमार ! या त्वया हस्ति-सम्भ्रमात्परिरक्षता ॥३३०।। तया च मुक्तया तस्मा-गजोपद्रवतस्तदा। मम जीवितदातेति, सस्नेहं त्वं प्रलोकित: ॥३३१।।। कलाकौशलसच्छौर्य-रूपादिगुणसम्पदाम् । प्रकर्षोऽयमिति ज्ञात्वा, त्वयि तस्या: सुनिर्भरः ॥३३२॥ अनुरागो दृढं जात-स्ततस्त्वामभि सत्वरम् । स्निग्धैरनिमिषैर्नेत्रैः, पश्यन्ती क्षणमेककम् ॥३३३॥ लिखितस्तम्भितेवासौ, स्थितैकाग्रमनास्तत: । गेहं नीता स्वलोकेन, व्यतीते हस्तिसम्भ्रमे ॥३३४।। तत्रापि कुरुते नैव, भोजनादिततस्थितिम् । केवलं मौनवृत्ते सा, स्थितास्ति वरबालिका ॥३३५॥ ततश्च सा मयाभाणि, किमप्रस्ताव एव हि। मुक्तस्वभाविका जाता, केन त्वं पुत्रि! कोपिता? ॥३३६।। ममापि येन नैवं त्वं, दत्से वत्से समुत्तरम् । ततश्चेदं तयावाचि, हसित्वा सविलक्षकम् ।।३३७|| युष्माकमपि किं मात:!, किञ्चिदस्ति रहस्यकम् । किन्त्वहं लजया वक्तुं, प्रशक्नोमि न किञ्चन।। तस्माच्च श्रूयतामम्ब !, स्वाकूतं कथ्यते तव । येनाहं मोचिता हस्ति-हस्तग्रासाच्छुभंयुना ॥३३९॥ स मे भर्ता महाभागो, यद्यम्ब ! न भविष्यति । तदा त्वरितमेवाहं, मरिष्यामि न संशयः ॥३४०॥ ततो मयेदमाकर्ण्य, तस्या: पित्रे निवेदितम् । तेनापि त्वत्समीपेऽहं, प्रेषिता राजनन्दन! ॥३४१।। तत्तस्या: पूरयस्व त्वं, बालिकाया मनोरथान् । प्रतिश्रुतं च तत्तेन, [दाक्षिण्यैकदा तदा ॥३४२॥ दम्पत्योश्च तयोरेवं,] ततोऽन्यदा शुभेऽहनि । वृत्तं विवाहमाङ्गल्यं, 'प्रवृत्तश्च महोत्सवः ॥३४३॥ तथा सुबुद्धयमात्येन, दत्त्वा नन्दाख्यकन्यकाम् । रम्यं विवाहमाङ्गल्यं, कृतं वरधनोरपि॥३४४।। एवं द्वयोरपि प्राज्यं, वैषयिकं सुखं तयोः । भुञ्जानयोर्यथाकामं, गत: काल: कियानपि ॥३४५॥ १ प्रवृत्तः सुमनोत्सवं- BJPC ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org