________________
अधिकार १२ / श्लोक २६३ / चित्रसम्भूतिकथा (ब्रह्मदत्तचक्रिकथा)
३०१
उच्छलिता तयोर्वार्ता, सर्वदेशेष्वपि क्रमात् । ततो राजगृहादेतौ गतौ वाणारसीं पुरीम् ॥३४६।। ब्रह्मदत्तं बहिर्मुक्त्वा, स्वयं वरधनुर्गत: । पुरीमध्ये समाख्यातुं, पार्श्वे कटकभूपतेः ॥३४७।। ततस्तुष्टो विनिष्क्रान्तो, राजा सबलवाहन: । उद्यानस्थकुमारस्य, समीपे वेगतो गत: ॥३४८।। आरोहितो गजस्कन्ध- मानीतो निजमन्दिरम् । दत्ता कटकावतीनाम, कुमाराय निजाङ्गजा ॥३४९।। अनेकरथहस्त्यश्व-भाण्डागारसमन्विताम् । प्रशस्तेऽहनि वृत्तश्च, विमहः सुमहोत्सव: ॥३५०॥ एवं च तत्र संन्तिष्ठ-नापृच्छच कटकादिकान् । दूतं सम्प्रेषयामास, पुष्पचूलाय ब्रह्मभूः ॥३५१॥ सोऽपि वाराणसी शीघ्र-मागत: स्वबलान्वित: । राजा कमेरदत्तश्च, सचिवश्चागतो धनुः ॥३५२॥ अन्ये चभवदत्ताख्य-चन्द्रसिंहादयो नृपाः। प्रभूता आयतास्तत्र, कुमारस्य सहायकाः॥३५३॥ ततो वरधनुं कृत्वा, महासैन्यस्य नायकम् । प्रेषित: सर्वसामग्री-युक्तो दीर्घनृपोपरि ॥३५४|| प्रवृत्तश्च ततो गन्तुं, निरन्तरप्रयाणकैः । अत्रान्तरे च दीर्पण, दूत: सम्प्रेषितो निज: ।।३५५।। कटकादिनरेन्द्राणां, स च निर्भर्सितस्तकैः । ततस्ते गन्तुमारब्धाः, काम्पिल्यनगरं प्रति ॥३५६|| चलन्तश्चागतास्तत्र, वेष्टितं च समन्तत: । कृत्वा-निरुद्धसञ्चार-मनिर्गमप्रवेशकम् ॥३५७।। ततो व्यचिन्तयद्दी?, यथा किल कियच्चिरम् । बिले प्रविष्टकैः स्थेयं, साहसं क्रियतेऽधुना ॥३५८॥ इत्यालोच्य कृतोदग्र-सामग्रीको भृशं पुरात् । विनिर्गत्य परानीके, हेलया निपपात सः ॥३५९॥ ततो जातं महद्युद्धं, द्वयोरपि हि सैन्ययोः । क्षणान्तरात् समालोक्य, सम्भग्नं निजसैन्यकम् ॥३६०॥ दीर्घराज: स्वयं चैव, सम्प्रहर्तुमुपस्थित: । ततश्च तं समालोक्य, सन्धुक्षितक्रुधानल: ॥३६१॥ तस्याऽभिमुखं बला-च्चलितो ब्रह्मनन्दन: । लग्नमायोधनं भीमं, ततस्तयो: परस्परम् ॥३६२।। अथ प्रहत्य तेनास्त्रैः, खड्गकुन्तादिभिश्चिरम् । विमुक्तं ब्रह्मदत्तेन, चक्रं दीर्घनृपोपरि ॥३६३॥ छिन्नं च तच्छिरस्तेन, त्रुटितं च महीतले । ततो दीर्घबलं सर्वं, ब्रह्मदत्तमशिथ्रियत् ॥३६४॥ ततश्चायं जगत्यत्र, चक्रवर्तीति सर्वतः । उल्ललास जनानन्दं, ददज्जयजयारव: ॥३६५।। पुष्पवृष्टिस्ततो मुक्ता, सिद्धगन्धर्वखेचरैः । उद्घष्टं च यथैषोऽत्र, चक्रेशो द्वादशोऽजनि ॥३६६।। ततो जानपदैर्लोकै- गरिकजनैस्तथा । नन्द्यमान: सदासीभिः', प्रविष्टः क्रमत: पुरम् ।।३६७।। निजं च मन्दिरं पश्चा-त्तस्य सामन्तमन्त्रिभिः । सर्वैश्चक्रे महाचक्र-वर्तिराज्याभिषेचनम् ॥३६८॥ ततश्च पूर्वचक्रेश-नीत्या सर्वं प्रसाधितम् । हिमवत्सिन्धुपर्यन्तम्, षट्खण्डमपि भूतलम् ।।३६९॥ अन्त:पुरं च नि:शेष, पुष्पवत्याद्यमागतम् । एवं च चक्रवर्तित्वं, कुर्वतो यान्ति वासराः ॥३७०॥ अन्यदा च नटेनेदं, विज्ञप्तो नृपतिर्यथा । नाट्यं मधुकरीगीत-नामकं तव दर्शये ।।३७१॥ ततोऽपराह्नकालेऽसौ, प्रारब्ध: कर्तुमुच्चकैः । नाट्यं विभ्रमबिब्बोक-हावभावमनोहरम् ॥३७२।। अत्रान्तरे नरेन्द्राय, दासचेट्या समर्पितम् । सुगन्धं सुन्दराकार-पुष्पदामोरुगण्डकम् ॥३७३॥ १JC । सदाशीर्भि:- मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org