________________
३०२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
ततस्तत्प्रेक्षमाणस्य, श्रव्यं गीतं च शृण्वतः। विकल्पो ब्रह्मदत्तस्य, मनस्येवमजायत ॥३७४॥ यथेदृशं मया नाट्यं, मन्येऽहं दृष्टपूर्वकम् । कुत्र दृष्टमिदं कुत्रे-त्येवं चिन्तयत: सत: ॥३७५॥ उत्पन्नं ब्रह्मदत्तस्य, जातिस्मरणमुत्तमम् । तेन ज्ञातं यथा कल्पे, मया सौधर्मनामनि ॥३७६॥ विमाने पद्मगुल्माख्ये, तिष्ठतेदं प्रलोकितम् । एवं [च] चिन्तयंस्तत्र, राजा मूर्छा जगाम सः ।। पतितश्च महीपीठे, ततश्च पार्श्ववर्तिना । मन्त्रिसामन्तलोकेन, सरसैश्चन्दनादिभिः ।।३७८॥ तालवृन्तादिवातैश्च, स नीत: स्वस्थतां क्षणात् । तत:पूर्वभवभ्रातु-श्चित्रस्यान्वेषणाकृते ॥३७९॥ रहस्यं कुर्वता गुप्त-मुक्तो वरधनुर्यथा। श्लोकस्यामिदं मन्त्रिन् !, लिखित्वा वरपत्रके ॥३८०॥ पुरस्यान्तर्बहिष्टाच्च, लम्बयित्वा त्रिकादिषु । घोषयस्व निजै: पुम्भि-र्यथा भो श्रूयतां जना: ! ।।३८१॥ श्लोकस्यैतस्य य: पश्चा-दर्धं सम्पूरयिष्यति । नरेन्द्रस्तस्य राज्याधु, निश्चयेन प्रयच्छति ॥३८२॥ ततो बहुप्रदेशेषु, लम्बितं पत्रकं तकत् । सर्वत्राऽऽघोषणं कर्तुं, नित्यं प्रारब्धमुच्चकैः ॥३८३॥ अत्रान्तरे स चित्राख्य:, पूर्वजन्मसहोदर: । पुरे पुरिमतालाख्ये, भूत्वा सचिवपुत्रकः ॥३८४।। स्मृत्वा पूर्वभवं स्वीयं, प्रव्रज्यामभिगृह्य च । काम्पिल्यपुरमागत्यो-द्याने मनोरमाभिधे ॥३८५।। शुद्धे [च] प्राशुकस्थाने, पात्रकादि विमुच्य स: । कायोत्सर्गेण सन्तस्थौ, धर्मध्यानपरायणः ॥३८६।। अथारघट्टिकेनैवं, श्लोकार्धं पठ्यमानकम् । आकर्णितमिदं तत्र, तेन तत्साधुना यथा ॥३८७॥
आस्व दासौ मृगौ हंसौ मातङ्गावमरौ तथा । एवं श्रुत्वा तत: साधु: प्रोवाचेदं स्फुटाक्षरम् ॥३८८।। एषा नौ षष्ठिका जाति-रन्योन्याभ्यां वियुक्तयोः ।
तत: श्लोकार्धमेतद्धि, लिखित्वैकत्र पत्रके ॥३८९॥ शीघ्रं राजकुले तुष्टः, स आरघट्टिको गत: । पठितस्तेन सम्पूर्ण:, स श्लोको नृपतेः पुरः ॥३९०॥ तत: स्नेहातिरेकेण, गतो मूर्छा महीपति: । लुठितश्च महीपीठे, ततस्तत्पार्श्ववर्तिना ॥३९१॥ कुद्धेन राजलोकेन, संलपतेदमुच्चकैः । एतद्वाक्येन राजाय-मवस्थामीदृशीं ययौ ॥३९२॥ तदयं नष्टसच्चेष्टो, ह्येनं तु हन्यतामिति । ततो यष्टिचपेटायैः, स आरघट्टिको हत: ॥३९३।। हन्यमानेन तेनोचे, श्लोकोऽयं मयका न हि । पूरितस्तत्किमर्थं मां, ताडयत निरागसम् ॥३९४॥ तैरुक्तं तर्हि केनायं, पूरित: कथ्यत्तामहो ? । स प्राहोद्यानमध्यस्थो, मुनिरेवास्य पूरकः ।।३९५।। ततोऽमात्यादिलोकेन, मोचित: स कदर्थनात् । अथ श्रीखण्डसेकाद्यै-भूपतिर्लब्धचेतनः ॥३९६।। विज्ञातमुनिवृत्तान्तो, भक्तिस्नेहवशात्तत: । हेलयोल्लसितस्फाररोमाञ्चाञ्चितविग्रहः ।।३९७|| सार्धं निजकलोकेन, जगाम मुनिसन्निधौ । सद्भक्त्या वन्दित: साधु-निषण्णश्च तदन्तिके ॥३९८।। मुनिनापि समारब्द्या सुन्दरा धर्मदेशना । दर्शितं भवनैर्गुण्यं; वर्णिता: कर्महेतवः ॥३९९।। १ समाकर्णितमिदं तेन (ते J) साधुना यथा - BJC |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org