________________
अधिकार १२ / श्लोक २६३ / चित्रसम्भूतिकथा (ब्रह्मदत्तचक्रिकथा)
३०३
श्लाघितो मोक्षमार्गश्च, ख्यापितं मोक्षजं सुखम् । तत: पर्षत्समस्तापि, संविग्ना भाविता तथा ॥४००॥ ब्रह्मदत्तस्तु संवेग-निर्वेदादिकरैरपि । वाक्यैर्वरमुनेस्तस्य, न मनागपि भावितः ॥४०१॥ तत: प्राह सविशम्भं, सादरं विनयान्वितम् । करसम्पुटमायोज्य, राजेन्द्रस्तं मुनिं प्रति ॥४०२॥ यथा स्वसङ्गमेनाहं, भवतानन्दितो मुने! । तथानन्दं कुरुष्वाद्य, राज्यस्वीकरणेन मे ॥४०३।। पश्चाच्च सममेवावां, श्रयिष्यावस्तप:श्रियम् । नि:शेषसुखसन्दोह-कारणं करुणाकर ! ॥४०४॥ मुनिराह यथा राजन् !, युक्तं कर्तुमिदं मम । युष्माकमुपकाराय, सततोद्यतचेतसः ॥४०५॥ किं त्वत्र प्राणिनां भूयो, मानुषत्वं सुदुर्लभम् । सन्ध्यारागसमा लक्ष्मी, राज्यं सततपातुकम् ॥४०६।। अनवस्थायिनी चैषा, धर्मबुद्धिश्च देहिनाम् । विपाककटव: सर्वे, शब्दादिविषया नृप ! ॥४०७॥ ध्रुवश्च नरके पात-स्तदभिषक्तचेतसाम् । दुष्प्रापं मोक्षबीजं च, भूयोऽपि विरतिस्तथा ॥४०८॥ संयमं च परित्यज्य, घोरसंसारकारणम् । त्वद्राज्याश्रयणं नैव, रञ्जयति सतां मनः ॥४०९॥ तदयं मुच्यतां राजन् !, विद्वन्निन्द्य: कदाशय: । स्मर्यतां पूर्वजन्मानु-भूतां दुःखपरम्पराम् ॥४१०॥ श्रवणाञ्जलिभिनित्यं, पिब जैनवचोऽमृतम् । गच्छतदुक्तमार्गेण, नृजन्म सफलीकुरु ।।४११।। श्रुत्वेदं भूपति: प्राह, राज्ये मूर्च्छितमानस: । यथा भी सन्मुने! दृष्टं, त्यक्त्वेदं सुन्दरं सुखम् ॥४१२।। यददृष्टसुखे वाञ्छा, सा मे भाति न सुन्दरा । तदहों गृह्यतां राज्यं, क्रियतां मे समीहितम् ॥४१३।। मुनि: प्राह व्रतत्यागा-त्त्वद्राज्यं मे न रोचते । एवमादि स भूपालो, जल्पितप्रतिजल्पितैः ॥४१४|| यदा सम्बुद्धयते नैव, तदा साधुळचिन्तयत् । अहो ! चक्रे यदेतेन, निदानं पूर्वजन्मनि ।।४१५॥ मया निवारितेनापि, तदिदानीं विजृम्भते । अतो गुरुककर्माय-मसाध्योऽकालदष्टवत् ॥४१६।।। जैनेन्द्रवाक्यसन्मन्त्र-तन्त्रादीनामिति स्फुटम् । गतो मुनिवरोऽन्यत्र, सिद्ध: कालान्तरेण च ॥४१७।। राज्ञोऽपि चक्रिसौख्यानि, भुञ्जानस्य यथेप्सितम् । काल: कश्चिदतिक्रान्त:, प्रोवाचैकोऽन्यदा द्विजः॥ यथा भो राजराजेन्द्र!, श्रद्धा मे वर्ततेऽधुना । जानामि यदि भुञ्जेऽहं, भोजनं नृप ! तावकम् ॥४१९॥ राजा प्राह न मां मुक्त्वा, भोजनं मामकं द्विज ! । तीव्रोदरानिलस्यापि सम्यगन्यस्य जीर्यति ॥४२०॥ विप्र: प्राह नृप! प्राज्य-राज्यलक्ष्मी धिगस्तु ते। यस्त्वं भोजनमात्रेऽपि, विकल्पाकुलमानसः॥४२१।। ततश्चाक्षमया राज्ञा-नुज्ञातं भोजनं निजम् । भोजितश्च कलत्रादि-तत्कुटुम्बान्वितो द्विजः ॥४२२।। स च भुक्त्वा गतो गेहे, रजनी च समागता । ईषत्परिणतिं याति, तस्मिंश्चक्रेशभोजने !!४२३|| सर्वमेवावशीभूतं, तद्ब्राह्मणकुटुम्बकम् । उन्मादोद्रेकत: सर्व-कृत्याकृत्यविमूढकम् ॥४२४॥ मुक्तमातृदुहित्रादि-शिष्टलोकव्यवस्थकम् । अकार्यं कर्तुमारब्धं, परस्परमशङ्कितम् ॥४२५।। जीर्णे चान्ने तत: प्रात-र्गते च मदनज्वरे । रात्रिव्यतिकरं मत्वा, स विप्रो लज्जितो दृढम् ॥४२६॥ तदीयपरिजन: प्रोच्चैः, समग्रो व्रीडया मिथ: । न शशाक स्वकीयानि, दर्शयितुं मुखान्यपि ॥४२७॥ ततोऽकीर्तिभयाद्विप्रो, नगरादपि निर्गत: । [वि] चिन्तितं च तेनैवं, कथं नाम महीभुजा ॥४२८॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org