________________
३०४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
लोकसमक्षमेवाह-मेतेन तु विडम्बित: । ततोऽतिरुष्टचित्तेन, कान्तारे हिण्डताऽन्यदा ॥४२९॥ तेन व्यलोक्यजापालो, हस्तन्यस्तशरासन: । मृदुगोलिभिरेकत्रा-ऽश्वत्थपत्राणि काणयन् ॥४३०॥ चिन्तितं च ततस्तेन, यशायं पशुपालक: । मद्विवक्षितकार्यस्य, भविष्यति प्रसाधकः ॥४३१॥ एवं विचिन्त्य तद्योग्य-भोजनाच्छादनादिभिः । उपचर्य निजाकूतं, तस्मै तेन निवेदितम् ॥४३२॥ सोऽप्युपरोधतो विप्रा-भिप्रेतं प्रतिपन्नवान् । अन्यदा पशुपालोऽसौ, कुट्यान्तरितविग्रहः ॥४३३॥ अमोघबाणघातस्य, ब्रह्मदत्तस्य चक्रिण: । निर्गच्छत: पुरादेक-गोलिकयैव लोचने ॥४३४|| . द्वे अप्युत्पाटयामास, हेलयैव स पापभाक् । [अहो ! दुर्बुद्धिलोकानां, विवेको नैव विद्यते ॥४३५।। ततो राज्ञापि नि:शेषं, विज्ञाय द्विजचेष्टितम् । कुद्धेन स महापाप:, सकुटुम्बोऽपि घातितः ॥४३६।।
अन्यानपि बहून् विप्रान्, घातयित्वाह मन्त्रिणम् । यथा चढूंषि विप्राणां, समुत्पाट्य मदग्रतः॥४३७|| स्थाले कृत्वा निधेहि त्वं, येनाहं निजहस्तकैः । मर्दयित्वा यथाकामं, करोमि सुखमात्मनः ।।४३८॥ मन्त्रिणाप्यतिसङ्क्लिष्ट-कौघपरतन्त्रताम् । ज्ञात्वा तस्य तत: सार्ध-माखोटकफलान्वितम् ॥४३९॥ ढौकितं स्थालकं सोऽपि, तानि चक्षुर्धिया तत: । प्रत्यहं मर्दयामास, रौद्रध्यानपरायणः ॥४४०॥ इत्थं स्वस्य सुखं कुर्वन्, गमयति स्म वासरान् । ततश्च षोडशाग्राणि, सप्तवर्षशतानि सः ॥४४१॥ अनुपाल्य निजायुष्कं, कृत्वा कर्म च पापकम् । प्रवर्धमानदुर्वार-रौद्रध्यानवशं गतः ॥४४२।। मृत्वा च दुःखसंसार-भारित: सप्तमक्षितौ । उत्पन्नों नारकत्वेन, समुत्कृष्टकृतस्थितिः ॥४४३॥ निदानं यत्तदा तत्र, चक्रे सम्भूतिनामना । तदिह ब्रह्मदत्तस्य, जातं दुर्गतिकारणम् ।।४४४॥ चक्रिणा चित्रसम्भूती, मातङ्गावपि यत्तदा । वन्दिती सावरोधेन, सपौरेण च भक्तित: ॥४४५॥ तदहो सुप्रतप्तस्य, समग्रं तपस: फलम् । इति ज्ञात्वा सदा सम्य-क्तप्यतां निर्मलं तपः ॥४४६॥
इति चित्रसंम्भूतिकथानकं परिसमाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org