________________
अधिकार १२ / श्लोक २६३ / हरिकेशकथा
३०५
अथ हरिकेशकथानकं यथाअस्तीह मथुरानाम-पुरी शक्रपुरीसमा । तस्यां शङ्खाभिधो राजा-शेषराजार्चितक्रमः ।।१।। स च जैनेन्द्रसद्धर्म-सदनुष्ठानसंयुतम् । त्रिवर्गसुन्दरं भुक्त्वा, चिरं सांसारिकं सुखम् ।।२।। सौस्थ्यं कृत्वा निजे राज्ये, कामभोगेषु नि:स्पृहः । अन्तिके सद्गुरूणां तु, विभूत्या व्रतमग्रहीत् ॥३॥ कालक्रमेण सञ्जातो, गीतार्थ: कृतयौगिकः । भ्राम्यंश्च भूतलं प्राप्तः, पुरे गजपुराभिधे ॥४॥ तत्र भिक्षाकृते भ्राम्यन्, सोमदेवपुरोधसम् । हुतवहाख्याध्यायाः, समीपस्थमपृच्छत ॥५॥ यथा भो ! भो ! किमेतेन, पथा विप्र ! व्रजाम्यहम् । तेनाप्यनेन मार्गेण, गच्छन्तं दह्यमानकम्॥६॥ पश्याम्यहमिमं साधु, गच्छ गच्छेति जल्पितम् । प्रवृत्तो गन्तुमन्त्यन्त-मीर्यया समितो मुनिः ॥७॥ ब्राह्मणोऽपि समारूढो, गत्वा प्रासादमूर्धनि । ततोऽत्यन्तोपयुक्तं तं, प्रगच्छन्तं शनैः शनैः ॥८॥ मुनिं दृष्ट्वा गतस्तेन, यथा सोऽपि पुरोहितः । यावन्मार्ग: स सञ्जात-स्तुषारकणशीतल: ॥९॥ ततश्चिन्तितमेतेन, मयाहो पापकर्मणा । अतीवक्लिष्टचित्तेन, विहितं कर्म पापकम् ॥१०॥ द्रष्टव्यश्च महात्मायं, यत्तपस: प्रभावत: । अग्नितुल्योऽप्ययं मार्गो, जातो हिमकणोपमः ॥११॥ विचिन्त्यैवं गतस्तस्य, सन्मुनेरन्तिके द्विजः । वन्दितश्च मुनिर्भक्त्या, कथितं च स्वचेष्टितम् ॥१२॥ मुनिनापि ततस्तस्य, दर्शिता भवतुच्छता। प्रकाशितः कषायाणां, विपाकोऽन्त्यन्तदारुण: ॥१३॥ स्वर्गापवर्गदातृत्वं, जैनधर्मस्य शंसितम् । निन्दितं दुर्गतौ दुःखं, श्लाघितं निर्वृतौ सुखम् ॥१४॥ सर्वथातिप्रबन्धेन, शिष्टः सम्यक्त्वमूलकः । साधुधर्मस्तदासेवि-सर्वकल्याणकारकः ॥१५॥ ततोऽसौ देशनां श्रुत्वा, भवनिर्वेदकारिणीम् । संविग्नो भवभीतश्च, जातोत्साहो व्रतं प्रति ॥१६॥ कृत्वा कुटुम्बसौस्थ्यादि-कृत्यं तत्समयोचितम् । मुनेस्तस्यान्तिके दीक्षां, जग्राह विधिपूर्वकम् ॥१७॥ गृहीता द्विविधा शिक्षा, पालित: संयमश्चिरम् । कृत्वा च कर्मदोषेण, जातिरूपादिकं मदम् ॥१८॥ मृत्वा समाधियोगेन, [सं] प्राप्तस्त्रिदशालयम् । तत्र भुक्त्वा सुरस्त्रीभि:, सार्धं भोगाननुत्तरान् ॥१९॥ पल्योपमान्यनेकानि, ततश्च्युत्वा स्थितिक्षयात् । गङ्गातीरेऽस्ति मातङ्गो, बलकोट्टाभिधानकः॥ गौरी नाम जनी तस्य, तस्या: कुक्षावजायत । सर्वत: पुष्पितं चूतं, चैत्रलक्ष्म्या विशोभितम् ॥२१॥ स्वप्ने दृष्ट्वा प्रबुद्धा सा, स्वस्मै भर्ने न्यवेदयत्। तेनापि कथित: स्वप्न:, स्वप्नशास्त्रप्रवेदिनाम्॥२२॥ तैरप्युत्तमपुत्रस्य, समुत्पत्तिनिवेदिता । कालक्रमाच्च सासूत, मातङ्गी वरदारकम् ।।२३।। अपि च
जाईमयाऽवलेवा, मायंगकुलम्मि एस उप्पन्नो। सोहग्गरूवरहिओ, नियवंधूणं पि हसणिजो ॥२४॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org