________________
३०६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
तस्य बल इति प्राज्यं, कृतं नाम स्वबन्धुभि: । वर्धमानश्च कुर्वाण:, कलहं भण्डनं वृथा ॥२५॥ सर्वेषां विषशाखीव, जात उद्वेगकारकः । अन्यदा च क्रमाजाते, रम्ये मधुमहोत्सवे ।।२६।। पानभोजननृत्यादि-सक्तस्वजनबन्धुषु । अकस्माद्भण्डनं चक्रे, स मातङ्गो बलाभिधः ॥२७।। ततो निष्काशितो रुष्टैः, स तैरापानभूमित: । तानि च रममाणानि, दूरमास्ते विलोकयन् ॥२८॥ क्षणान्तराच्च तन्मध्ये, समायातो भुजङ्गमः । व्यापादित: स तै रुष्टै-स्ततो दीवक आगतः ॥२९॥ स तु व्यापादितो नैव, विलोक्येदं ततो बल: । अचिन्तयद्यथा भो ! भो:!, स्वदोषेणैव देहिनः ॥३०॥ भवन्ति विपदां स्थानं, सम्पदां तु गुणोदयात् । हतोऽहि: सविषो यस्मा-न तथा दीवकोऽविष:॥३१॥ स्वकैरेव गुणैर्दोषैः, सम्पदो विपदो यत: । जायन्ते प्राणिनां तस्मा-दर्जयामि गुणानहम् ॥३२॥ अपि च- एवं भावमाणो, धम्मं सोऊण साहुमूलम्मि ।
निच्छिण्णभवपवंचो मायंगो महरिसी जाओ ॥३३॥ विधिनोपात्तनि:शेष-साधुक्रियाकलापकः । षष्ठादितुर्यमासान्तं, तपस्तीवं चकार स: ॥३४|| तपसैवंविधेनाथ, कृशीभूतशरीरकः । क्रमतो विहरन् प्राप्त:, पुरीं वाणारसीमसौ॥३५॥ स्थित: साधूचिते स्थाने, उद्याने तिन्दुकाभिधे। तत्र चावसते यक्षो, गण्डितिन्दुकनामकः॥ स च साधुगुणग्रामैः, समावर्जितमानस: । तमेव प्रत्यहं साधु, शुश्रूषन्नभितिष्ठति ॥३७।।
अन्यदान्येन यक्षेण, स यक्ष: प्रनितो यथा।
भो ! भो: ! किं दृश्यसे न त्वं, तेनोक्तं कथ्यते शृणु ॥३८॥ वयं भो: पर्युपासीना:, साधुमेवमिहास्महे । त्रिलोकस्यापि सम्पूज्यं, व्रजामो न हि कुत्रचित् ॥३९॥ श्रुत्वेदं सर्वमत्यर्थं, साधोश्चरितमुत्तमम् । प्रतिबुद्धस्तत: सोऽपि, यक्ष: साध्वनुभावत: ॥४०॥ ततश्च तिन्दुकं यक्ष, स प्रोवाच प्रहर्षित: । धन्यस्त्वं कानने यस्य, वसत्येष महामुनि: ॥४१॥ अपि च- दद्वं मुणिस्स चरियं, पडिवुद्धो सो वि तिंदुर्ग भणइ।।
तं चिय मित्त ! कयत्थो, जस्स वणे वसइ तव एसो ॥४२॥ मज्झवि वसंति मुणिणो, उज्जाणे ता खणंतरं एक्कम् । गंतूण तेवि सरिसा, वंदामो भाणिउं पत्ता ॥४३॥ दिट्ठा य तेहि मुणिणो, कहवि पमा[या]ओ विगहमाणाओ। ताहे गाढयरागं, अणुरत्ता तंमि ते जक्खा ॥४४॥
[तुला-संवेग रंगसाला ६१९७-६१९९] एवं तिन्दुकयक्षस्य, स्तुवतस्तं महामुनिम् । सद्भक्त्याकृष्टचित्तस्य, व्यतिव्रजन्ति वासराः ॥४५॥ अपि च- भावेण वंदमाणस्स, महारिसिं तस्स पूयपावस्स ।
बच्चइ सुहेण कालो, हरिणोव्व जिणं थुणंतस्स ॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org