________________
अधिकार १२ / श्लोक २६३ / हरिकेशकथा
३०७
तत्र च पद्मपत्राक्षी, कौशलिकमहीपतेः । भद्रा नाम वरा कन्या, रूपयौवनगर्विता ॥४७॥ समं सद्गन्धपुष्पादि-पटलव्यग्रपाणिना । चेटिकाचक्रपालेन, यक्षायतनमागता ॥४८॥ तं यक्षं पूजयित्वा सा, प्रयच्छन्ती प्रदक्षिणाम् । तन्महामुनिमद्राक्षी-न्मलक्लिन्नाङ्गधारिणम् ॥४९॥ अतीवमलिनस्यूत-जीर्णोपकरणान्वितम् । प्रणष्टरूपलावण्यं, तप:शोषितविग्रहम् ॥५०॥ दृष्ट्वा च तं महासाधु-मतिबीभत्सदर्शनम् । तया निष्ठीवितं तत्र, मह्यमोहविमूढया ॥५१॥ पापा केयमहो कन्या, या निन्दति महामुनिम् । एवं विचिन्त्य यक्षेण, तच्छरीरमधिष्ठितम् ॥५२॥ ततोऽसमञ्जसैर्वाक्यैः, प्रलपन्ती विसंस्थुलम् । कथञ्चिदेव कष्टेन, नीता सा राजमन्दिरे ॥५३॥ दृष्ट्वा तां तादृशीं राज्ञा-त्यन्तमातुरचेतसा । अनेके व्याहता ज्योति-मन्त्रतन्त्रादिवादिनः ॥५४|| अपि च- जो विरडि पि न जाणइ, नरवइणा सो वि तत्थ वाहरिओ।
नेहाउलाण अहवा, केत्तियमेत्तं व पुरिसाण ? ॥५॥ ततस्तस्या: समारब्धा, धन्वन्तरिसमप्रभैः । क्रिया चतुर्विधा वैद्यै-र्यथाज्ञानं प्रयत्नत: ॥५६।। तथापि नैव सञ्जातो, गुण: कोऽपि मनागपि-। पुनश्चानेकधा मन्त्र-तन्त्र-यन्त्रादय: कृता: ॥५७॥ तेऽप्यूषर इव न्यस्ता:, सर्वे विफलतां ययुः । अथवा दैविके विघ्ने, किं करोतीह मानव: ? ॥५८।। अपि च- इय जाहे विगुत्ता, सव्वे विज्जाइणो तओ जक्खा ।
जंपइ पत्तंमि ठिओ, एयाए निंदिओ साहू ।।५९।। ता जइ वरइ तस्सेव, देहं मुंचामि नन्नहा मोक्खो।
रन्ना वि जीवउ त्ति य, पडिवन्नं जक्खवयणं ति ॥६०॥ तत: स्वस्थशरीरा सा, सर्वालङ्कारभूषिता। विवाहयोग्यसद्वस्त्र-व्यग्रपाणिसखीयुता ॥६१।। जगामातिमहाभूत्या, मुनेस्तस्य पदान्तिके । पतित्वा पादयोः स्वीयै-महल्लकै: समं तत: ॥१२॥ विज्ञप्त: स तया भक्त्या , यथा भो ! भो ! महामुने ! । स्वयंवरागताया मे, गृहाण करपल्लवम् ॥६३।। मुनिर्बभाण हे भद्रे !, पर्याप्तं कथयानया। निन्दनीयं ध्रुवं लोकै-स्तन्मा वोचस्त्वमीदृशम् ॥६४॥ अपि च- इत्थीइ समं वासंपि, जे न इच्छंति एकवसहीए।
कह ते निययकरेहि, रमणीण करे गहिस्संति ? ॥६५॥ सिद्धिवहुबद्धरागा, असुईपुन्नासु कह णु जुवईसु। रज्जंति महामुणिणो, गेवेज्जयवासिदेवव्व ॥६६॥
[तुला-संवेग रंगसाला ६२११-१२] ततो नानाप्रकाराणि, विकुळ च रूपाणि सा । प्रच्छाद्य साधुरूपं च, यक्षेणातीवधर्षिता ॥६७।। विमानिता निशां सर्वां, नानाकारं यथेच्छया। प्रभातसमये याव-नालोकयति तं मुनिम् ॥६८॥ तत: स्वप्नमिवाशेषं, मन्यमानातिदुर्मना: । स्वलोकेनानुयाता च, जगाम निजमन्दिरम् ॥६९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org