________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
अथ विज्ञपयामास, महीनाथं पुरोहितः । राजन् ! मुनीशपत्नीयं, मुनिना प्रोज्झिता सती ॥७०॥ भवतु पत्नी विप्राणां, तस्मात्तेभ्यः प्रदीयताम् । प्राप्तकालमिदं चैवे - त्याकलय्य महीभुजा ॥ ७१ ॥ प्रदत्ता रुद्रदेवाय, तस्मै चैव पुरोधसे । [ अत्राहो खलु संसारे, कर्मणां गतिरीदृशी] ॥७२॥ अपि च- पावनिमित्तं काउं, जा रिसिणा उज्झिया नरिंदसुया ।
३०८
सा वि पुरोहिणं, गहिया सुहकारणं काउं ॥ ७२॥
एवं पुरोधसस्तस्य, तया सार्धं यथेप्सितम् । भुञ्जानस्य महाभोगान्, कालः कोऽपि व्यतीतवान् ॥७३॥ अन्यदा रुद्रदेवेन, यज्ञं प्रयजता सता । विहिता यज्ञपत्नी सा, विधिना राजपुत्रिका ॥७४॥ तत्र च भट्टचट्टाद्या, नानादेशान्तरागताः । अनेके मिलिताः स्वर्ण-गोदानादिजिघृक्षया ॥ ७५ ॥ इतश्च स मुनिर्भ्राम्यन्, भिक्षार्थं मासपारणे । समितः सुष्ठु गुप्तश्च, यज्ञपाटकमागतः ॥ ७६ ॥ प्रविष्टश्च मुनिस्तन्त्र, धर्मलाभपुरस्सरम् । भट्टादीनां पुरोभूय, देशे साधूचिते स्थितः ॥७७॥ ततस्तप:कृशीभूत-देहं भूरिमलाविलम् । प्रणष्टरूपलावण्यं, प्रान्तवस्त्रादिधारिणम् ॥७८॥ दृष्ट्वा तं मुनिमारब्धा, हसितुं ते द्विजादयः । निन्दागर्भैरसभ्यैश्च, दुर्वचोभिर्विरुद्धकैः ॥७९॥ अपि च- जंपिंतिं भट्टचट्टा, कीस तुमं एत्थ आगमो पाव ! । ता तुरियं एयाओ, 'थामाओ 'वच्चसु हयास ||८० ॥ एत्यंतरंमि जक्खो, रिसिणो देहंमि पविसिउं भणइ । भिक्खत्थमागओ हं, ता दिज्जउ मज्झ भो भिक्खा ॥ ८१ ॥ जाईकुलेसु विसिट्ठा, वेयविहन्नू सकम्मसंतुट्ठा । ताण दियाणं तु इमो, दिज्जिस्सइ वच्च तं पाव ! ॥ ८२ ॥ हिंसालियचोरिक्के मेहुन्नपरिग्गहाओ हं विरओ । समसत्तुमित्ततणु' लेडुकंचणो विगयऽहंकारो || ८३ ॥ परिचत्तगिहावासो, उग्गमउप्पायएसणासुद्धं ।
जामि भिक्खमित्तं, गिहे गिहे तेण पत्तोऽम्हि ॥ ८४ ॥ एसोय कओ पागो, विविहो तुम्हेहिं निययकज्जेण । ता एयाओ मज्झवि, धम्मट्टा देह भो ! भिक्खं ॥ ८५ ॥ जाव दिएहिं न भुत्तो, पढमं जलणे वि जाव नो छूढो । ताव न दिज्जइ एसो, सुद्दाणं वच्च तं समण ! ॥ ८६ ॥ जह कालम्मि सुखित्ते, विहिणा वीयं सुवावियं फलयं । जाय तह पिझ्वंभण- जलणम्मि निवेसियं दाणं ॥ ८७ ॥
१ थाम न. [दे. ठाण] स्थान, जगह- इति पाइअसद्दमहण्णवकोशे । २ °मित्त धण- इति उपदेशमालागतवर्धमानसूरिकथायां प. २५९ ॥
* For Private & Personal Use Only
Jain Education International
www.jainelibrary.org