Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 349
________________ ३२२ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके श्रीमतो नेमिनाथस्य, प्रसादेन सुरोऽभवम् । उक्तश्चाहं त्वया पूर्वं, यथा भो प्राणवल्लभ ! ॥२७०।। त्वयाहमापदि क्वापि, सम्बोध्य: सर्वयत्नतः । ततोऽहमागतो राम!, त्वत्प्रतिबोधहेतवे ॥२७१॥ स चायं प्रतिबोधस्य, काल: सम्प्रति वर्तते । यथोक्तं स्वामिना पूर्वं, यथा जरत्कुमारकात् ॥२७२।। हरे: सम्पत्स्यते मृत्यु-स्तथैव च बभूव भोः । श्रुत्वेदं हलिना प्रोक्तं, कदा पुनर्जनार्दनः ॥२७३।। भद्र! जरत्कुमारेण, व्यापादितस्तत: सुरः । आचख्यौ सर्ववृत्तान्तं, हरिव्यापादनादिकम् ॥२७४।। तावद्यावत्स कृष्णेन, पाण्डवानां समीपके । सम्प्रेषित: प्रियालाप-पूर्वं जरत्कुमारकः ॥२७५।। तत: स्नेहात्समालिझ्य, सिद्धार्थ हलिनोदितम्। यथा भो: किंमया कार्य-मिदानीं कथयस्व मे॥२७६।। देव: प्राह महाभाग !, सर्वसङ्गविवर्जनात् । सर्वज्ञोक्तविधानेन, कुरु श्रामण्यमुत्तमम् ॥२७७॥ संस्मर च जिनेन्द्रस्य, नेमेस्तानि वचांस्यहो । रामः प्राह करोम्येष, श्रामण्यं साधुसेवितम् ।।२७८॥ सुष्ठ दुःखविमोचिन्यो, नेमिवाच: स्मराम्यहम् । परं कुत्र नयिष्यामि, हरेरेतत्कलेवरम् ॥२७९॥ देवेन भाषितं राम !, नदीद्वितयसङ्गमे । मुक्त्वेदं पुष्पगन्धाद्यैः, सत्कुर्म: पूजयामहे ॥२८०॥ यतस्तीर्थकृतश्चक्र-वर्तिनो रामकेशवा: । पूजामर्हन्ति सर्वेऽपि, पूजिताश्च जनैः सदा ॥२८१।।। तंतस्ताभ्यां द्वयोर्नद्यो:, सङ्गमे पुलिने वरे । हरेर्देहमिमं मुक्त्वा , पूजितं संस्कृतं तथा ॥२८२।। अत्रान्तरे च रामस्य, स्वामिनारिष्टनेमिना। प्रव्रज्यासमयं ज्ञात्वा, विद्याधरश्च सन्मुनिः ।।२८३।। प्रेषितो बलदेवस्य, प्रव्रज्यादानहेतवे। आगतस्तन वेगेन, दीक्षां च हलिने ददौ ॥२८४॥ ततो भगवतोऽरिष्ट-नेमेर्वाक्यैस्तदा हली। परं संवेगमापन-त्रुटित: स्नेहजालकः ॥२८५|| तुङ्गिकाभिधशैलस्य, शिखरे संवृतेन्द्रिय: । एकाकी कर्तुमारब्ध-स्तप:कर्मसुदुष्करम् ॥२८६॥ सिद्धार्थोऽपि दृढं हृष्टः, प्राचीनस्नेहरज्जुभि: । रक्षस्तमेव रामर्षि, नित्यं तत्रैव तिष्ठति ॥२८७॥ तथा जरत्कुमारोऽपि, दक्षिणांमथुरां ययौ। दृष्टाश्च पाण्डवास्तेभ्यो, ढौकित: कौस्तुभो मणिः ।। शिष्टं च द्वारिकावत्या, दाहलोकक्षयादिकम् । नि:शेषं पाण्डुपुत्रेभ्य-स्तावद्यावदिहागत: ॥२८९॥ श्रुत्वेदं पाण्डवा: शोका-न्महाक्रन्दनपूर्वकम् । चक्रिरे मृतकृत्यानि, वर्षमेकं सुदुःखिताः ॥२९०॥ ततो जरत्कुमाराय, दत्त्वा राज्यश्रियं निजाम् । सर्वेऽपि प्रस्थिता गन्तुं, श्रीमन्नेमिजिनान्तिके ॥२९१।। अत्रान्तरे जिनेन्द्रेण, नेमिना पाण्डवान्तिके । सम्प्रेषितश्चतुर्ज्ञानी, साधुसन्दोहसंयुतः ॥२९२॥ दीक्षार्थं पाण्डुपुत्राणां, धर्मघोषाभिधो मुनि: । प्रवाजिताश्च ते तेन, साधुना सुविधानतः ॥२९३।। ततो नेमिजिनस्यान्ते, गन्तुमारेभिरे च ते । षण्मासान्तं च षष्ठाद्यं, कुर्वन्तो दुष्करं तपः ॥२९४।। यतस्ते तावदायाता, यावद् द्वादशभिः किल । योजनैर्वर्तते श्रीमान्, नेमिनाथो जिनेश्वरः ॥२९५।। ततस्तैश्चिन्तितं चित्ते, परमानन्दनिर्भरैः । वयं नेमिजिनं प्रात-र्सन्द्रक्ष्याम: सुनिश्चितम् ॥२९६।। तत्रैव गमिता रात्रि:, प्रभाते च श्रुतं तकैः । जनवादाद्यथा नेमि-रुज्जयन्ते शिवं गत: ॥२९७॥ १ मिदं-BJC | २ धर: सन्मुनि:- BJC ॥ ३ द्राक्षाम-BC । क्षयाम: J । वृक्षयाम: मु॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466