________________
निप्फजइ सव्वे से सन्निवाइए नामे, तत्थ णं दस दुअसंजोगा दस तिअसंजोगा पंच चउक्कसंजोगा एगे पंचकसंजोगे। सन्निपातः-एषामेवौदयिकादिभावानां व्यादिमेलापकः स एव तेन वा निवृत्तः सान्निपातिकः, तथा चाह'एएसिं चेवे'त्यादि, एषामौदयिकादीनां पञ्चानां भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगैर्ये षड्विंशतिर्भङ्गाः भवन्ति ते सर्वेऽपि सान्निपातिको भाव इत्युच्यते, एतेषु मध्ये जीवेषु नारकादिषु षडेव भङ्गाः सम्भवन्ति,13 शेषास्तु विंशतिर्भङ्गका रचनामात्रेणैव भवन्ति, न पुनः कचित् सम्भवन्ति, अतः प्ररूपणामात्रतयैव ते अवगन्तव्याः, एतत् सर्व पुरस्ताव्यक्तीकरिष्यते, कियन्तः पुनस्ते द्वयादिसंयोगाः प्रत्येकं सम्भवन्ति इत्याह'तत्थ णं दस दुगसंजोगा' इत्यादि, पञ्चानामौदयिकादिपदानां दश द्विकसंयोगाः दशैव त्रिकसंयोगाः पञ्च चतुःसंयोगाः एकस्तु पञ्चकसंयोगः संपद्यत इति, सर्वेऽपि षड्विंशतिः। तत्र के पुनस्ते दश द्विकसंयोगा इति जिज्ञासायां प्राह
एत्थ णं जे ते दस दुगसंजोगा ते णं इमे-अत्थि णामे उदइएउवसमनिप्फण्णे १ अत्थि णामे उदइएखाइगनिप्फण्णे २ अस्थि णामे उदइएखओवसमनिप्फण्णे ३ अत्थि णामे उदइएपारिणामिअनिप्फण्णे ४ अत्थि णामे उवसमिएखयनिप्फण्णे ५
Jain Education HCA
For Private & Personal Use Only
Idviainelibrary.org