Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 537
________________ Jain Education In योगद्वारं नयवक्तव्यताया मूलस्थानम्, अत्र सिद्धानामेव तेषां तत्रोपन्यासः, यदप्युक्तम् 'न च सूत्रव्यतिरि क्तमध्ययन' मित्यादि, तदप्यसारं, समुदायसमुदायिनोः कार्यादिभेदतः कथञ्चिद्भेदसिद्धेः, तथाहि प्रत्येकावस्थायामनुपलब्धमप्युद्वहनसामर्थ्यलक्षणं कार्य शिबिकावाहकपुरुषसमुदाये उपलभ्यते, एवं च प्रत्येकसदितावस्थयोः कार्यभेदः शिविकावाहनादिषु सामर्थ्यासामर्थ्यलक्षणो विरुद्धधर्माध्यासश्च दृश्यते, यदि चायमपि न भेदकस्तर्हि सर्व विश्वमेकं स्यात्, ततश्च सहोत्पत्त्यादिप्रसङ्गः तस्मात्कार्य भेदाद्विरुद्धधर्माध्यासाच्च समुदायसमुदायिनोर्भेदः प्रतिपत्तव्यः, एवं सङ्ख्यासंज्ञादिभ्योऽपि तद्भेदो भावनीयः, तस्मात्कश्चित्कचित्सूत्रवि षयः समस्ताध्ययनविषयश्च नयविचारो न दुष्यति, भवत्वेवं तथाऽप्यध्ययनं नयैर्विचार्यमाणं किं सर्वैरेव वि चार्यते ? आहोखिद् कियद्भिरेव ?, यदि सर्वैरिति पक्षः स न युक्तः, तेषामसङ्ख्येयत्वेन तैर्विचारस्य कर्तुमश क्यत्वात्, तथाहि - यावन्तो वचनमार्गास्तावन्त एव नया:, यथोक्तम् - "जावइया वयणपहा तावइया चेव होंति नयवाया। जावइया नयवाया तावइया चैव परसमया ॥ १ ॥ " न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्या समस्ति, प्रतिप्राणि प्रायो भिन्नत्वादभिप्रायाणां, नापि कियद्भिरिति वक्तुं शक्यम्, अनवस्थाप्रसङ्गात् सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि किं नेत्यनवस्थाप्रेरणायां न नैयत्यावस्थापकं हेतुमुत्पश्यामः, अथापि स्यादसंख्येयत्वेऽप्येषां सकलनयसङ्ग्राहिभिर्नयैर्विचारो विधीयते, १ यावन्तो वचनपथास्तावन्तश्चैव भवन्ति नयवादाः । यावन्तो नयवादास्तावन्तश्चैव परसमयाः ॥ १ ॥ For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546