Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 535
________________ वाचकभेदेनापरापरान् वाच्यविशेषान् समभिरोहति-समभिगच्छति प्रतिपद्यत इति समभिरूढः, अयमत्र भावार्थ:-इन्द्रशक्रपुरन्दरादिशब्दान् अनन्तरं शब्दनयेन एकाभिधेयत्वेनेष्टानसौ विशुद्धतरत्वात् प्रत्येक भिन्नाभिधेयान् प्रतिपद्यते, भिन्नप्रवृत्तिनिमित्तत्वात्, सुरमनुजादिशब्दवत्, तथाहि-इन्दतीति इन्द्रः शक्नोतीति शक्रः पुरं दारयतीति पुरन्दरः, इह.परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे अतिप्रसङ्गो, घटपटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं च सति यथा इन्द्रशब्दः शक्रशब्देन सहैकार्थ उच्यते ४ तदा वस्तुनः परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे सङ्क्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, न हि य एव परमैश्वर्यपर्यायः स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कापत्तितोऽतिमसङ्गादित्यलं विस्तरेण, उक्तः समभिरूढः । 'वंजणअत्थेत्यादि, यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं-यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमेवं भूत-प्राप्तमितिकृत्वा, ततश्चैवंभूतवस्तुप्रतिपादको नयोऽप्युपचारादेवंभूतः, अथवा एवं-यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्तमेवं भूतः-प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते, स एवंभूतो नयः किमित्याह-व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं-शब्दः अर्थस्तु-तदभिधेयवस्तुरूपः, व्यञ्जनं चार्थश्च व्यञ्जनार्थों तौ च तौ तदुभयं चेति समासः, व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देशः प्राकृतत्वात् तद्व्यञ्जनार्थतदुभयं विशेषयतिनैयत्येन स्थापयति, इदमत्र हृदयम्-शब्दमर्थनार्थ च शब्देन विशेषयति, यथा 'घट चेष्टायां घटते योषिन्म देनोच्यते पाणअत्थेत्यादिनावितुमर्हति, मतं भवतीत्यत । Jain Education ! For Private Personal Use Only Finelibrary.org

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546