Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अनुयो. मलधा
वृत्तिः उपक्रमे नयाधि०
रीया
॥२६८॥
यति-नन्वैहिकामुष्मिकफलार्थिना तावत्सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम् , अन्यथाप्रवृत्तौ फलविसंवाददर्शनाद, आगमेऽपि च प्रोक्तम्-'पढमं नाणं तओ दए'त्यादि 'जं अन्नाणी कम्मं खवेई'त्यादि, तथा अपरमप्युक्तम्-"पावाओ विणियत्ती पवत्तणा तह य कुसलपक्खंमि । विणयस्स य पडिवत्ती तिन्निवि नाणे समप्पंति ॥१॥” तथा अन्यैरप्युक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनाद् ॥१॥” इति, इतश्च ज्ञानस्यैव प्राधान्यं, यतस्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्धा, तथा च तद्वचनम्-"गीयत्यो य विहारो बीओ गीयत्थमीसिओ भणिओ। इत्तो तइयविहारो नाणुन्नाओ जिणवरेहिं ॥१॥" न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिपद्यत इति भावः, एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नं, तस्माज्ज्ञानमेव पुरुषार्थसिद्धेर्निबन्धनं, प्रयोगश्चात्र-यदू येन विना न भवति तत्तन्निबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्कुरो, ज्ञाना-14 विनाभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चायं नयश्चतुर्विधे सामायिके सम्यक्त्वसामायिकश्रुतसामा। १ पापाद्विनिवृत्तिः प्रवर्तना तथा च कुशलपक्षे । विनयस्य च प्रतिपत्तित्रीण्यपि ज्ञानात्समाप्यन्ते ॥१॥ २ गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितो भ| णितः । एताभ्यां तृतीयो विहारो नानुज्ञातो जिनवरैः ॥ १॥
SAHARS
॥२६८॥
Jain Education
For Private Personal use only
Linelibrary.org

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546