Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अनुयो. मलधा
वृत्तिः उपक्रमे नयाधिक
रीया
॥२७॥
AAS
चक्केण रहो पयाइ । अंधो य पंगू य वणे समेचा, ते संपउत्ता नयरं पविट्ठा ॥२॥” इत्यादि, अत्राह-नन्वेवं ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात्, न हि यद्येषु प्रत्येकं नास्ति तत्तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत्समुदितेष्वपि सिकताकणेषु तैलं, प्रत्येकमसती च ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः, उक्तं च-"पत्तेयमभावाओ निव्वाणं समुदियासुवि न जुत्तं । नाणकिरियासु वोत्तुं सिकतासमुदायतेलं व ॥१॥", उच्यते, स्यादेतदु, यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयेत, यदा तु तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोषः, आह च-"वीसुंन सब्वहच्चिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समवायंमि संपुण्णा ॥१॥” अतः स्थितमिदं-ज्ञानक्रिये| समुदिते एव मुक्तिकारणं, न प्रत्येकमिति तत्त्वं, तथा च पूज्याः-"नाणाहीणं सव्वं नाणनओ भणइ किं च किरियाए? । किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥१॥" तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव, स| |च ज्ञानक्रियायुक्त एवेत्यतो व्यवस्थितमिदं-तत्सर्वनयविशुद्धं यच्चरणगुणव्यवस्थितः साधुरिति ॥ तदेवं समर्थितं नयद्वारं, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थने चानुयोगद्वारशास्त्रं समाप्तम् ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र सङ्कलितः। न पुनः खमनीषिकया तथाऽपि यत्किञ्चिदिह वितथम्
१ प्रत्येकमभावानिर्वाणं समुदितयोरपि न युक्तम् । ज्ञानक्रिययोर्वक्तुं सिकतासमुदाये तैलमिव ॥१॥ २ विष्वक् न सर्वथैव सिकतातैलवत् साधनाभावः । देशोपकारिता या सा समवाये सम्पूर्णा ॥१॥ ३ ज्ञानाधीनं सर्व ज्ञाननयो भणति किं च क्रियया? । क्रियाया (अधीन) चरणनयस्तदुभयग्राहश्च सम्यक्त्वम् ॥१॥
॥२७०॥
Jain Education interest
For Private & Personel Use Only
R
ainelibrary.org

Page Navigation
1 ... 542 543 544 545 546