Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 542
________________ वृत्तिः अनुयो० ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥१॥” इति, एवं तावत् क्षायोपशमिकी 8 मलधा-1 चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम्, अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयं, यस्मादहतोऽपि उपक्रमे रीया भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्तिः संपद्यते यावदखिलकर्मेन्धनानलज्वालाकलापरू नयाधिक पायां शैलेश्यवस्थायां सर्वसंवररूपां चारित्रक्रियां न प्रामोति, तस्माद् क्रियैव प्रधाना सर्वपुरुषार्थसिद्धिकारणं, ॥२६९॥ प्रयोगश्चात्र-यद्यत्समनन्तरभावि तत्तत्कारणं, यथा अन्त्यावस्थाप्राप्तपृथिव्यादिसामग्र्यनन्तरभावी तत्कारणोऽङ्करः, क्रियाऽनन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चैष चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्वश्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छतीति गाथार्थः । ननु पक्षद्वयेऽपि युक्तिदर्शनात्किमिह तत्त्वमिति न जानीम इति शिप्यजनसम्मोहमाशक्य ज्ञानक्रियानयमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह_ 'सव्वेसिंपि'गाहा, न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ?-'सर्वेषामपि खतन्त्रसामान्यविशेषवादिनां नामस्थापनादिवादिनां वा नयानां वक्तव्यतां परस्परविरोधिनी प्रोक्तिं निशम्य'श्रुत्वा तदिह 'सर्वनयविशुद्धं सर्वनयसम्मतं तत्त्वरूपतया ग्राह्य, यत् किमित्याह-'यचरणगुणस्थितः साधुः' चरणं-चारित्रक्रिया गुणोत्र ६ज्ञानं तयोस्तिष्ठतीति चरणगुणस्थः, ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्त एव साधुः मुक्तिसाधको न पुनरेकेन 8॥२९॥ है केनचिदिति भावः, तथाहि-यत्तावज्ज्ञानवादिना प्रोक्तं-यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र SAGARMALAGHAT Jain Education in For Private Personal use only

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546