Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 536
________________ वृत्तिः अनुयो० मलधारीया त्यात, घटध्वनेरपि तदभप्रभेदा आवश्यकादिवाद इत्यलं बहुभाषितयणपक्रान्तस्य निक्षेपे ॥२६६॥ स्तकाद्यारूढश्चेष्टत इति घट इति, अत्र तदैवासौ घटो यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान्नान्यदा, घटध्वनिरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन उपक्रमे निवर्त्यते, घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन खवाचकत्वं निवर्त्यत इति भावः, इति गाथार्थः ॥ उक्ता नयाधि० मूलनयाः, एषां चोत्तरोत्तरभेदप्रभेदा आवश्यकादिभ्योऽवसेयाः। एते च सावधारणाः सन्तो दुर्नयाः, अव-14 धारणविरहितास्तु सुनयाः, सर्वैश्च सुनयैर्मीलितैः स्याद्वाद इत्यलं बहुभाषितया ॥ अत्राह कश्चित्-ननूक्ता एते नयाः, केवलं प्रस्तुते किमेतैः प्रयोजनमिति नावगच्छामः, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणाऽमीषां प्रयोजनं । पुनरप्याह-15 नन्वेषा नयैर्विचारणा किं प्रतिसूत्रमभिप्रेता सर्वाध्ययनस्य वा?, यद्याद्यः पक्षः स न युक्तः, प्रतिसूत्रं नयविचारस्य 'न नया समोयरंति इहमित्यनेन निषिद्धत्वादु, अथापरः पक्षः सोऽपि न युक्तः, समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातनिर्युक्तौ 'नए समोयारणाणुमएं' इत्यत्रोपन्यस्तत्वात्, न च सूत्रव्यतिरिक्तमध्ययनमस्ति यन्नयैर्विचार्यते, अन्रोच्यते, यस्तावत्प्रतिसूत्रं नयविचारनिषेधः प्रेर्यते, तत्राविप्रतिपत्तिरेव, किं च-'आसज्ज उ सोयारं नए नयविसारओ बूया' इत्यनेनापवादिकः सोऽनुज्ञात एव, यदप्युच्यते-समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घाते'त्यादि, तत्समयानभिज्ञस्यैव वचनं, यस्मादिदमेव चतुर्थानु- ॥२६६॥ १ आसाद्य तु श्रोतारं नयान् नयविशारदो बूयात् । Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546