Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥१॥" इत्याद्यन्यदप्यभ्यूह्यम् । अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः, हेत्वाभासश्चार्य, ज्ञानादेस्तद्गुणस्योपलब्धेः, उक्तं च-"नाणाईण गुणाणं अणुभवओ होइ8 जंतुणो सत्ता । जह रूवाइगुणाणं उवलंभाओ घडाईण ॥१॥" मित्यादि प्रागेवोक्तमिति, असद्भावत्वं चैकान्तक्षणभङ्गासद्भूतार्थाभिधायकत्वाद्, एकान्तक्षणभङ्गादेश्वासद्भूतत्वं युक्तिविरोधात्, तथाहि-"धम्माध-1 म्मुवएसो कयाकयं परभवाइगमणं च । सव्वावि हु लोयठिई न घडइ एगंतखिणयम्मी ॥१॥"त्यादि, अक्रियात्वं चैकान्तशून्यताप्रतिपादनात्, सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवाद्, उक्तं च
-"सव्वं सुन्नंति जयं पडिवन्नं जेहि तेऽवि वत्तव्वा । सुन्नाभिहाणकिरिया कत्तुरभावेण कह घडई ॥१॥"त्यादि, उन्मार्गत्वं परस्परविरोधस्थाण्वाद्याकुलत्वात्, तथाहि-"न हिंस्यात् सर्वभूतानि, स्थावराणि चराणि च । आत्मवत्सर्वभूतानि, यः पश्यति स धार्मिकः॥१॥” इत्याद्यभिधाय पुनरपि “षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः॥१॥” इत्यादि प्रतिपादयन्तीति, अनुपदेशित्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात् , तदुक्तम्-"सर्व क्षणिकमित्येतदु, ज्ञात्वा को न प्रवर्तते? | विषयादौ विपाको मे, न भावीति विनिश्चयाद ॥१॥” इत्यादि, यतश्चैवं ततो मिथ्यादर्शनं, तत
. १ ज्ञानादीनां गुणानामनुभवाजन्तोः सत्ता । यथा रूपादिगुणानामुपलम्भाद् घटादीनाम् ॥ २॥ २ धर्माधर्मोपदेशः कृताकृतं परभवगमनादिकं च । सर्वाऽपि लोकस्थितिर्न घटत एकान्तक्षणिके ॥१॥ ३ सर्व शून्यं जगदिति प्रतिपन्नं यैस्तेऽपि वक्तव्याः । शून्याभिधानक्रिया कर्तुरभावे कथं घटते? ॥१॥
। सन्नाभावतोऽभावेन तखिणयम्भ
in Education
For Private & Personel Use Only
T
hjainelibrary.org

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546