Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नियतावपि पङ्कजला प्रतिबद्धत्वात् , सूतति दर्शयति
निष्पकम्पत्वात् , ज्वलनसमः तपस्तेजोमयत्वात् , तृणादिष्विव सूत्रार्थेष्वतृप्तेः, सागरसमो गम्भीरत्वाद ज्ञानादिरत्नाकरत्वात् स्वमर्यादानतिक्रमाच, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, तरुगणसमः सुखदुःखयो-४ रदर्शितविकारत्वात्, भ्रमरसमोऽनियतवृत्तित्वात्, मृगसमः संसारभयोद्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात् , जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाध्यामिव तदूर्ववृत्तेः, रविसमः धर्मास्तिकायादिलो-12 कमधिकृत्याविशेषेण प्रकाशकत्वात्, पवनसमश्च सर्वत्राप्रतिबद्धत्वात्, स एवंभूतः श्रमणो भवतीति गा-18 थार्थः॥ यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति-'तो समणो'गाहा, व्याख्या-ततः श्रमणो यदि द्रव्यमन आश्रित्य सुमना भवेत्, "भावेन च भावमनश्चाश्रित्य यदि न भवति पापमनाः, सुमनस्त्वचिहान्येव श्रमणगुणत्वेन दर्शयति-खजने च-पुत्रादिके जनेच-सामान्ये समो-निर्विशेषः मानापमानयोश्च सम इति गाथार्थः ॥ इह च ज्ञानक्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञानक्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनवाद, एवं च सति सामायिकवतः साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासो न विरुध्यते, सामायिकतद्वतोरभेदोपचारादिति भावः ॥ नामनिष्पन्नो निक्षेपः समाप्तः॥ अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह
१नास्तीदं प्र. २ गुणरत्नपरिपूर्णत्वाद् ज्ञानादिगुणैरगाधत्वाद्वा ख. प्र.३ संसार प्रति नित्योद्विमत्वात् प्र. ४ सर्वसहत्वात् प्र.५ निष्पकत्वात् पङ्कजलस्थानीयकामभोगोपरिवृत्तेरित्यर्थः प्र. ६ तमोविघातकत्वात् प्र.
यदि न भ
Jain Education in
For Private & Personel Use Only
M
ainelibrary.org

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546