Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 530
________________ वृत्तिः उपक्रमे अनुगमे० अनुयो० चित्र्यदर्शनार्थो भेदेनोपन्यासः, अत एव सामायिकप्रतिपादकं पदं सामायिकपदमित्यादावपि भेदेनोपादानं मलधा सार्थकमिति, सामायिकव्यतिरिक्तानां नारकतिर्यगाद्यर्थानां प्रतिपादकं पदं नोसामायिकपदमित्येतच्च सूत्रोचारीया रणस्य फलं दर्शितम् , इदमुक्तं भवति-यतः सूत्रे समुच्चारिते खसमयपदादिपरिज्ञानं भवति ततस्तदुच्चारणीय॥२६३॥ मेव, ततस्तस्मिन् सूत्रे उच्चारितमात्र एव सति केषाश्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकारा अ धिगता:-परिज्ञाता भवन्ति, केचित्तु क्षयोपशमवैचित्र्यादनधिगता भवन्ति, ततस्तेषामनधिगतानामधिकाराणामधिगमार्थ पदेन पदं वर्णयिष्यामि, एकैकं पदं व्याख्यास्यामीत्यर्थः । तत्र व्याख्यालक्षणमेव तावदाह -'संहिया ये'त्यादि, तत्रास्खलितपदोचारणं संहिता, यथा 'करोमि भयान्त ! सामायिक मित्यादि, पदं तु करोमीत्येकं पदं भयान्त इति द्वितीयं सामायिकमिति तृतीयम् इत्यादि, पदार्थस्तु करोमीत्यभ्युपगमो भयान्त इति गुर्वामन्त्रणं समस्यायः सामायिकमित्यादिकः, पदविग्रहः समासः, स चानेकपदानामेकत्वापादानविदोषयो यथा भयस्यान्तो भयान्त इत्यादि, सूत्रस्यार्थस्य वा अनुपपत्त्युद्भावनं चालना, तस्यैवानेकोपपत्तिभिस्तथैव स्थापनं प्रसिद्धिः, एते च चालनाप्रसिद्धी आवश्यके सामायिकव्याख्यावसरे खस्थान एव विस्तरवत्यौ द्रष्टव्ये, एवं षड्विधं विद्धि'जानीहि लक्षणं व्याख्याया इति प्रक्रमागम्यते इति श्लोकार्थः । अत्राह-नन्वस्थाः पधिव्याख्याया मध्ये कियान् सूत्रानुगमस्य विषयः? को वा सूत्रालापकनिक्षेपस्य? कश्च सूत्रस्पर्शिकनिनयुक्तेः? किं वा नयैर्विषयीक्रियते?, उच्यते, सूत्रं सपदच्छेदं तावदभिधाय सूत्रानुगमः कृतप्रयोजनो भवति, WISATARISHISHIRAPADAS वेद्धि'जानीहि लक्षणं व्यावश्यक सामायिकव्याख्नं चालना, तस्यैवानेको R ॥२६३॥ Jan Education ! For Private Personel Use Only Jainelibrary.org

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546