Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 529
________________ SASHA गुणाः सूत्रस्य पठ्यन्ते, तद्यथा-"अप्पक्खरमसंदिद्धं, सारवं विस्सओमुहं । अत्योभमणवजं च, सुत्तं सव्वण्णुभासियं॥१॥ यत्राल्पाक्षरं-मिताक्षरं यथा सामायिकसूत्रम्, असन्दिग्धं-सैन्धवशब्दवद्यल्लवणवसनतुरगाद्यनेकार्थसंशयकारि न भवति, सारवत्त्वं च पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षम, यथा-'धम्मो मंगलमुक्किट्ठ'मित्यादिश्लोके चत्वारोऽप्यनुयोगा व्याख्यायन्ते, अथवा अनन्तार्थत्वाद् यतो विश्वतोमुखं ततः सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिश्च व्याख्याने पञ्चैवैते गुणा भवन्ति, स्तोभकाः-चकारवाशब्दादयो निपातास्तैर्वियुक्तमस्तोभकम् , अनवद्यं कामादिपापव्या-16 पाराप्ररूपकं, एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वे अष्ट सूत्रगुणाः प्रोक्तास्तेऽनन्तर श्लोकोक्तगुणास्तेवेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानामपि सङ्ग्रहं प्रतिपादयन्ति । एवं सूत्रानुगमे समस्तदोषविप्रमुक्ते लक्षणयुक्ते सूत्रे उच्चारिते ततो ज्ञास्यते यदुतैतत्खसमयगतजीवाद्यर्थप्रतिपादकं पदं खसमयपदं, परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदं, अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुत्वाइन्धपदमितरत्तु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके, अन्ये तु व्याचक्षते-प्रकृतिस्थित्यनुभावप्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम्, सद्बोधकारणत्वात् कृत्स्नकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्षपदमिति । आह-नन्वत्र व्याख्याने बन्धमोक्षप्रतिपादकं पदद्वयं खसमयपदान्नातिरिच्यते तत्किमिति भेदेनोपन्यासः१, सत्यं, किन्तु खसमयपदस्याप्यभिधेयवै in duelan For Private Personel Use Only Harjainelibrary.org

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546