Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 526
________________ वृत्तिः अनुयो. मलधारीया उपक्रमे अनुगमे० ॥२६॥ CCCCC दिशमुदीचीमित्याददार्थकमपार्थकं यथा क्रमनिर्देशमा मारवगदोसो निदेसर्पयत्यसंघिदोसो य। एए अ मुत्तदोसा बत्तीसा हुंति नायव्वा ॥ ४॥” तत्रानृतमभूतोद्भावनं भूतनिहवञ्च, यथा ईश्वरकर्तृकं जगदित्याचभूतोद्भावनं, नास्त्यात्मेत्यादिकस्तु भूतनिहवः १, उपघातः सत्त्वघातादिः, तज्जनकं यथा वेदविहिता हिंसा धर्मायेत्यादि २, निरर्थकं यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न त्वर्थों, यथा अआइईत्यादि डिस्थादिवद्वा ३, असम्बद्धार्थकमपार्थकं यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि ४, यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलं यथा-नवकम्बलो देवदत्त इत्यादि ५, जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषकं दुहिलं यथा 'एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः। भद्रे! वृकपदं पश्य, यद्बदन्त्यबहुश्रुताः ॥१॥ पिव खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्न ते। न हि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥२॥ इत्यादि ६, वेदवचनादिवत् तथाविधयुक्तिरहितं परिफल्गु निःसारं ७, अक्षरपदादिभिरतिमात्रमधिकं ८, तैरेव हीनमूनम्, अथवा हेतोदृष्टान्तस्य वाऽऽधिक्ये सत्यधिकं, यथा-अनित्यः शब्दः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्यः, अत्र च प्रत्येकं द्वयाभिधानादाधिक्यमिति भावः, हेतुदृष्टान्ताभ्यामेव हीनमून, यथा अनित्यः शब्दो घटवदिति, यथा अनित्यः शब्दः कृतकवादित्यादि ९, पुनरुक्तं द्विधा-शब्दतोऽर्थतश्च, तथार्थादापन्नस्य पुनर्वचनं पुनरुक्तं, तत्र शब्दतः पुनरुक्तं यथा घटो घट इत्यादि, अर्थतः पुनरुक्तं यथा घटः कुटः कुम्भ इत्यादि, अर्थादापन्नस्य C ESCREECECT ॥२६॥ Jain Education For Private sPersonal use Only Odiainelibrary.org

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546