Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अनुयो० मलधा
रीया ॥२५७॥
वृत्तिः उपक्रमे सूत्राला
SIISAAAAS ROSASCALA
से किं तं सुत्तालावगनिप्फण्णे?, २ इआणिं सुत्तालावयनिप्फण्णं निक्खेवं इच्छावेइ से अ पत्तलक्खणेऽविण णिक्खिप्पइ, कम्हा?, लाघवत्थं, अत्थि इओ तइए अणुओगदारे अणुगमेत्ति, तत्थ णिक्खित्ते इहं णिक्खित्ते भवइ, इहं वा णिक्खित्ते तत्थ णिक्खित्ते
भवइ, तम्हा इहं ण णिक्खिप्पइ तहिं चेव निक्खिप्पइ, से तं निक्खेवे (सू० १५४) अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेप:१, 'करोमि भदन्त ! सामायिकं' इत्यादीनां सूत्रालापकानां नामस्थापनादिभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः, 'इयाणिमित्यादि, स चेदानी सूत्रालापकनिष्पन्नो निक्षेप एष इत्यवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि-प्राप्ततत्वरूपाभिधानसमयोऽपि न निक्षिप्यते-न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मादित्याह-लाघवार्थ, तदेव लाघवं दर्शयति-अस्ति अतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्तः सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति, आह-यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते?, नैवं, यतः सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, न च सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं-तस्मादिह न निक्षिप्यते इत्यादि । पुनरप्याह-यद्येवं किमर्थ सूत्रालापकनिक्षेपस्य अत्रोपन्यासः?, उच्यते, निक्षेप
BHAROSAROKARMA
॥२५७॥
JainEducation
For Private Personal Use Only
A
Bininelibrary.org

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546