SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा रीया ॥२५७॥ वृत्तिः उपक्रमे सूत्राला SIISAAAAS ROSASCALA से किं तं सुत्तालावगनिप्फण्णे?, २ इआणिं सुत्तालावयनिप्फण्णं निक्खेवं इच्छावेइ से अ पत्तलक्खणेऽविण णिक्खिप्पइ, कम्हा?, लाघवत्थं, अत्थि इओ तइए अणुओगदारे अणुगमेत्ति, तत्थ णिक्खित्ते इहं णिक्खित्ते भवइ, इहं वा णिक्खित्ते तत्थ णिक्खित्ते भवइ, तम्हा इहं ण णिक्खिप्पइ तहिं चेव निक्खिप्पइ, से तं निक्खेवे (सू० १५४) अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेप:१, 'करोमि भदन्त ! सामायिकं' इत्यादीनां सूत्रालापकानां नामस्थापनादिभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः, 'इयाणिमित्यादि, स चेदानी सूत्रालापकनिष्पन्नो निक्षेप एष इत्यवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि-प्राप्ततत्वरूपाभिधानसमयोऽपि न निक्षिप्यते-न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मादित्याह-लाघवार्थ, तदेव लाघवं दर्शयति-अस्ति अतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्तः सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति, आह-यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते?, नैवं, यतः सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, न च सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं-तस्मादिह न निक्षिप्यते इत्यादि । पुनरप्याह-यद्येवं किमर्थ सूत्रालापकनिक्षेपस्य अत्रोपन्यासः?, उच्यते, निक्षेप BHAROSAROKARMA ॥२५७॥ JainEducation For Private Personal Use Only A Bininelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy