SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ॥१॥" इत्याद्यन्यदप्यभ्यूह्यम् । अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः, हेत्वाभासश्चार्य, ज्ञानादेस्तद्गुणस्योपलब्धेः, उक्तं च-"नाणाईण गुणाणं अणुभवओ होइ8 जंतुणो सत्ता । जह रूवाइगुणाणं उवलंभाओ घडाईण ॥१॥" मित्यादि प्रागेवोक्तमिति, असद्भावत्वं चैकान्तक्षणभङ्गासद्भूतार्थाभिधायकत्वाद्, एकान्तक्षणभङ्गादेश्वासद्भूतत्वं युक्तिविरोधात्, तथाहि-"धम्माध-1 म्मुवएसो कयाकयं परभवाइगमणं च । सव्वावि हु लोयठिई न घडइ एगंतखिणयम्मी ॥१॥"त्यादि, अक्रियात्वं चैकान्तशून्यताप्रतिपादनात्, सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवाद्, उक्तं च -"सव्वं सुन्नंति जयं पडिवन्नं जेहि तेऽवि वत्तव्वा । सुन्नाभिहाणकिरिया कत्तुरभावेण कह घडई ॥१॥"त्यादि, उन्मार्गत्वं परस्परविरोधस्थाण्वाद्याकुलत्वात्, तथाहि-"न हिंस्यात् सर्वभूतानि, स्थावराणि चराणि च । आत्मवत्सर्वभूतानि, यः पश्यति स धार्मिकः॥१॥” इत्याद्यभिधाय पुनरपि “षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः॥१॥” इत्यादि प्रतिपादयन्तीति, अनुपदेशित्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात् , तदुक्तम्-"सर्व क्षणिकमित्येतदु, ज्ञात्वा को न प्रवर्तते? | विषयादौ विपाको मे, न भावीति विनिश्चयाद ॥१॥” इत्यादि, यतश्चैवं ततो मिथ्यादर्शनं, तत . १ ज्ञानादीनां गुणानामनुभवाजन्तोः सत्ता । यथा रूपादिगुणानामुपलम्भाद् घटादीनाम् ॥ २॥ २ धर्माधर्मोपदेशः कृताकृतं परभवगमनादिकं च । सर्वाऽपि लोकस्थितिर्न घटत एकान्तक्षणिके ॥१॥ ३ सर्व शून्यं जगदिति प्रतिपन्नं यैस्तेऽपि वक्तव्याः । शून्याभिधानक्रिया कर्तुरभावे कथं घटते? ॥१॥ । सन्नाभावतोऽभावेन तखिणयम्भ in Education For Private & Personel Use Only T hjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy