________________
वृत्तिः
अनुयो. मलधारीया
उपक्रमे अर्थाधि.
॥२४५॥
इश्चमिथ्यादर्शनमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं सायादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति । तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् स्यात्पदलाञ्छननिरपेक्षतया दुर्नयत्वादसत्त्वेनैते नयाः प्रतिपद्यन्त इति भावः, स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यताऽन्तर्भाव एव, प्रोक्तं च महामतिना-"नयास्तव स्यात्पदलान्छिता इमे, रसोपंदिग्धा इव लोहधातवः। भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥१॥” इत्यादि, सेयं वक्तव्यतेति निगमनं ॥ वक्तव्यता समाप्ता ॥ १५१ ॥ साम्प्रतमर्थाधिकारावसर:
से किं तं अत्याहिगारे?, २ जो जस्स अज्झयणस्स अत्थाहिगारो, तंजहा-सावजजोगविरई उकित्तण गुणवओ य पडिवत्ती। खलियस्स निंदणा वणतिगिच्छ गुणधा
रणा चेव ॥ १॥ से तं अत्थाहिगारे (सू० १५२). । तत्र यो यस्य सामायिकाद्यध्ययनस्यात्मीयोऽर्थस्तदुत्कीर्तनमाधिकारस्य विषयः, तच 'सावजजोगविरई'त्यादिगाथावसरे प्रागेव कृतमिति न पुनः प्रतन्यत इति । वक्तव्यतार्थाधिकारयोस्त्वयं भेदः-अर्थाधिकारोडध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनि| यतेति ॥ १५२॥ अथ समवतारं निरूपयितुमाह
१ विभो प्र. २ विद्धा पा.
॥२४५॥
Jain Education
a
l
For Private & Personal use only
C
ainelibrary.org