SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया ॥ २४४ ॥ Jain Education Inter यदा साङ्ख्यादयः प्रतिपादयन्ति तदेवं (यं) परसमयवक्तव्यता, यदा तु जैनास्तदा खसमयवक्तव्यता, ततञ्चासौ | स्वसमय पर समयवक्तव्यतोच्यते । अथ वक्तव्यतामेव नयैर्विचारयन्नाह - 'इआणि को नओ' इत्यादि, अत्र नैगमव्यवहारौ त्रिविधामपि वक्तव्यतामिच्छतः, नैगमस्यानेकगमत्वाद्व्यवहार [पर]स्य तु लोकव्यवहारपरत्वात्, लोके च सर्वप्रकाराणां रूढत्वादिति भावः, ऋजुसूत्रस्तु विशुद्धतरत्वादायामेव द्विविधां वक्तव्यतामिच्छति, खप - रसमयवक्तव्यतानभ्युपगमे युक्तिमाह- 'तत्थ णं जा सा' इत्यादि, तृतीयवक्तव्यताभेदे याऽसौ खसमयवक्तव्यता गीयते सा स्वसमयं प्रविष्टा, कोऽर्थः ? -प्रथमे वक्तव्यताभेदे अन्तर्भूता इत्यर्थः, या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यता भेदे अन्तर्भाविता इत्यर्थः, ततञ्चोभयरूपवक्तव्यतायाः प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव वक्तव्यता न त्रिविधेति भावः । सङ्ग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्याद्वा न पृथगुक्त इति । त्रयः शब्दनयाः - शब्दसमभिरूढैवंभूताः शुद्धतमत्वादेकां ख| समवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यन्ते, कस्मादित्याह यस्मात् परसमयोऽनर्थः, इत्यादि, इत्थं चेह योजना कार्या - नास्ति परसमयवक्तव्यता, परसमयस्यानर्थत्वादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवात्मेत्यनर्थप्रतिपादकत्वाद्, आत्मनो नास्तित्वस्य चानर्थत्वमात्माभावे तत्प्रतिषेधानुपपत्तेः उक्तं च - " जो चिंतेह सरीरे नत्थि अहं स एव होइ जीवोत्ति । न हु जीवंमि असंते संसयउप्पायओ अण्णो १ यश्चिन्तयति शरीरे नास्म्यहं स एव भवति जीव इति । नैव जीवेऽसति संशयोत्पादकोऽन्यः ॥ १ ॥ 1 For Private & Personal Use Only वृत्तिः उपक्रमे वक्तव्य० ॥ २४४ ॥ Unwdyainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy