Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 487
________________ भावितार्थमेव, नवरं परिपूर्ण इति रूपं न पात्यते इत्यर्थः। 'तण परं इत्यादि, गतार्थमेव, 'उक्कोसयं परित्ताणतयमित्यादि, जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सख्यानां राशीनां-प्रत्येकं जघन्यपरीतानन्तकप्रमाणानां पूर्ववदन्योऽन्याभ्यासे रूपोनमुत्कृष्टं परीतानन्तकं भवति, 'अहवा जहण्णयं जुत्ताणंतयमित्यादि, स्पष्ट, 'जहण्णयं जुत्ताणतयं केत्तियमित्यादि व्याख्यातार्थमेव । 'अहवा उक्कोसयं परित्ताणतएइत्यादि, सुबोधं, जघन्ये च युक्तानन्तके यावन्ति रूपाणि भवन्ति अभवसिद्धिका अपि जीवाः केवलिना तावन्त एव दृष्टाः, 'तेण पर'मित्यादि, कण्ठ्यम्, 'उक्कोसयं जुत्ताणतयं केत्तिय मित्यादि, जघन्येन युक्तानन्तकेनाभव्यराशिर्गुणितो रूपोनः सन्नुत्कृष्टं युक्तानन्तकं भवति, तेन तु रूपेण सह जघन्यमनन्तानन्तक संपद्यते, अत एवाह-'अहवा जहण्णयं अणंताणतय'मित्यादि, गतार्थ, 'जहण्णयं अणंताणतयं केत्तिय'मित्यादि, भावितार्थमेव, 'अहवा उक्कोसए जुत्ताणतए'इत्यादि, प्रतीतमेव, 'तेण परं अजहण्णुक्कोसयाई इत्यादि, जघन्यादनन्तानन्तकात् परतः सर्वाण्यपि अजघन्योत्कृष्टान्येवानन्तकानन्तकस्य स्थानानि भवन्ति, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेत्यभिप्रायः । अन्ये त्वाचार्याः प्रतिपादयन्ति-जघन्यमनन्तानन्तकं वारत्रयं पूर्ववत् वयेते, ततश्चैते षडनन्तकप्रक्षेपाः प्रक्षिप्यन्ते, तद्यथा-"सिद्धा निगोयजीवा वणस्सई काल पुग्गला चेव । सव्वमलोगागासं छप्पेतेऽणतपक्खेवा ॥१॥” अयमर्थः-सर्वे सिद्धाः सर्वे सूक्ष्मवादरनिगोदजीवाः प्रत्येकानन्ताः सर्वे वनस्पतिजन्तवः सर्वोऽप्यतीतानागतवर्तमानकालसमयराशिः सर्वपुद्गलद्रव्यसमूहः सर्वोऽलोकाकाशप्र ACESSOSASSASSASSASSA JainEducation a lional For Private Personal use only X ainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546