Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 70
________________ जून - २०१९ दत्ते स्म सवजीया पारणकं ज्येष्ठशुद्धराकायाः । ज्येष्ठवदिपाक्षिकस्य च सा. सचवीरो महाभक्त्या ||३३|| आषाढचतुर्मास्याः पारणकं सप्तभेदपक्वान्नैः । अददात् सा. वेलजीको रत्नं सा. रत्नजिद्वंशे ॥३४॥ आषाढवदिकपाक्षिक-पारणकं सा. अभा प्रददौ । श्रावणराकाभुक्तिं सा. पनजी हेमजित् प्रददे ॥३५॥ असितश्रावणपाक्षिक- पारणकं सत्सुखी सखीगोडी । त्रेलाधरपारणकं प्रत्तं माणिक्यसंज्ञेन ||३६|| अदित श्रेष्ठी (ष्ठि) कल्याणो दीपचन्द्रः सुबान्धवः । श्रीवार्षिकपारणकं मनोमोदकमोदकैः ॥३७॥ सबलीकर्तुं पारणगर्वं स्वधर्मचन्द्रच्छ्रेष्ठी । पनजीपुत्रः प्रादात् पारणकं दुर्बलाष्टम्याः ||३८|| तप्तं तपः सुजप्तं द्वाभ्यां विधिना च विंशदुपवासं । श्राद्धीपञ्चकमर्घ्यं पक्षक्षपणं तपस्तेपे ॥३९॥ तद्वद्दशोपवासं श्राद्धीदशकं तपः प्रतपते स्म । सप्तदशाष्टाहिकका दशभक्तं पञ्चदशसंख्यम् ॥४०॥ संख्यातीतानि जातानि षष्ठाष्टमतपांस्यपि । जज्ञे विविधपक्वान्नैर्भक्तिरष्टमकारिणाम् ॥४१॥ संशीलयन्ति शीलं सत्यं धना: (न्याः) श्रावकाः श्राद्भूयोऽपि च महासत्यः सत्यं शीलं न भिन्दन्ति ॥४२॥ दातव्यं लातव्यं परिहर्तव्यं तथा च कर्तव्यम् । दानं ज्ञानं मानं ध्यानं स्याद् भावना भविनाम् ॥४३॥ एवमत्रत्यं सत्कृत्यं पार्वणं नु निवेदितं । भवद्भिस्तच्च, तत्रत्यं कर्त्तव्यं पत्रगोचरम् ॥४४॥ अत्रत्यानां मुनिश्रीसुन्दरसागरगणि-मुनिश्रीललितसागरगणि-मु. मु. वलभसागरजी मु. गुलालसागरगणि मुनिश्री कपूरसागरगणि ज्ञानसागरगणि मु. हितसागरगणि मु. विमलसागरगणि चिरं. कृपाचंद-कस्तूरचंदप्रभृतीनां वन्दना ज्ञेया । संघस्य धर्मलाभो लाभ्यः । - 1 - - ६३ -

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142