________________
जून - २०१९
दत्ते स्म सवजीया पारणकं ज्येष्ठशुद्धराकायाः । ज्येष्ठवदिपाक्षिकस्य च सा. सचवीरो महाभक्त्या ||३३|| आषाढचतुर्मास्याः पारणकं सप्तभेदपक्वान्नैः । अददात् सा. वेलजीको रत्नं सा. रत्नजिद्वंशे ॥३४॥ आषाढवदिकपाक्षिक-पारणकं सा. अभा प्रददौ । श्रावणराकाभुक्तिं सा. पनजी हेमजित् प्रददे ॥३५॥ असितश्रावणपाक्षिक- पारणकं सत्सुखी सखीगोडी । त्रेलाधरपारणकं प्रत्तं माणिक्यसंज्ञेन ||३६|| अदित श्रेष्ठी (ष्ठि) कल्याणो दीपचन्द्रः सुबान्धवः । श्रीवार्षिकपारणकं मनोमोदकमोदकैः ॥३७॥ सबलीकर्तुं पारणगर्वं स्वधर्मचन्द्रच्छ्रेष्ठी । पनजीपुत्रः प्रादात् पारणकं दुर्बलाष्टम्याः ||३८|| तप्तं तपः सुजप्तं द्वाभ्यां विधिना च विंशदुपवासं । श्राद्धीपञ्चकमर्घ्यं पक्षक्षपणं तपस्तेपे ॥३९॥ तद्वद्दशोपवासं श्राद्धीदशकं तपः प्रतपते स्म । सप्तदशाष्टाहिकका दशभक्तं पञ्चदशसंख्यम् ॥४०॥ संख्यातीतानि जातानि षष्ठाष्टमतपांस्यपि । जज्ञे विविधपक्वान्नैर्भक्तिरष्टमकारिणाम् ॥४१॥ संशीलयन्ति शीलं सत्यं धना: (न्याः) श्रावकाः श्राद्भूयोऽपि च महासत्यः सत्यं शीलं न भिन्दन्ति ॥४२॥ दातव्यं लातव्यं परिहर्तव्यं तथा च कर्तव्यम् ।
दानं ज्ञानं मानं ध्यानं स्याद् भावना भविनाम् ॥४३॥ एवमत्रत्यं सत्कृत्यं पार्वणं नु निवेदितं । भवद्भिस्तच्च, तत्रत्यं कर्त्तव्यं पत्रगोचरम् ॥४४॥
अत्रत्यानां मुनिश्रीसुन्दरसागरगणि-मुनिश्रीललितसागरगणि-मु.
मु. वलभसागरजी मु.
गुलालसागरगणि मुनिश्री कपूरसागरगणि ज्ञानसागरगणि मु. हितसागरगणि मु. विमलसागरगणि चिरं. कृपाचंद-कस्तूरचंदप्रभृतीनां वन्दना ज्ञेया । संघस्य धर्मलाभो लाभ्यः ।
-
1
-
-
६३
-