SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७७ कृत्वा प्रतिष्ठां ते प्रापुः प्रतिष्ठां भुवि भूयसीम् ॥२०॥ चतुर्भिः कलापकम् । तस्यां प्रतिष्ठिकायामस्माभिः सच्च यद्यदुपदिष्टम् । वाचामगोचरतरं तत्कियल्लिख्यते यत्र (पत्रे) ॥२१॥ अथ च - कुर्वत्सु च क्रियाकाण्डं विनेयान् पाठयत्सु च । कारयत्सु जिनेन्द्रार्चा जिनेन्द्रभुवनेऽनघे ॥२२॥ त्रिभिविशेषकम् । भाणयत्सु च श्राद्धार्भान् षडावश्यकमुत्तमम् । श्राविकाणां जिनेन्द्राणां गीताद्युपदिशत्सु च ॥२३॥ एवमनारतमाविःकृतसस्नेहं सरणरणकं च । प्रचलत्सु धर्मकर्मसु समागमत् पर्वणां नेता ॥२४॥ त्रिभिर्विशेष्यकम् । तदागमेऽथ श्रीसङ्घः सर्वत्रामारिघोषणाम् । अवादयज्जगज्जन्तु-जीवातृकसहोदरीम् ॥२५॥ तदा दोसी गुलालाख्यः कल्पसूत्रं निजे गृहे । नीत्वा तस्य महो जागादि सर्वमचीकरत् ॥२६॥ प्रातर्गजारूढकुमारहस्त-संन्यस्तपुस्तः ससमस्तसंघः अनस्तभावः स च कल्पसूत्र-मस्मत्करेऽदाद्विशदागमं तत् ॥२७॥ अस्माभिस्तत्सदाख्यातं व्याख्यातं संघसंसदि । व्याख्यानदशकैः पूजा-प्रभावनाप्रभावितैः ॥२८॥ सांवत्सरिकपर्वाहे सूत्रितं ज्ञानसिन्धुना । सूत्रतः श्रीकल्पसूत्रं गच्छसूत्रविदा हृदा ॥२९॥ चैत्यप्रपाटिकामथ बंधुद्वानं गुरोश्च गुणगानम् । क्षामणदानपुरस्सर-सांवत्सरिकप्रतिक्रमणम् ॥३०॥ मोदकपेटकपूगैः सांवत्सरिकप्रदानमुत्तानम् । सविवेकी श्रीसङ्घः सदा सुरङ्गः प्रकुरुते स्म ॥३१॥ युग्मं पारणाधिकारः । राधामायाः पारणकं गान्धिको वीरपालोऽपि । लोपितकर्मवितानः सत्पक्वान्नैर्ददाति स्म ॥३२॥
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy