Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 11
________________ अनुसन्धान-७७ त्वां गवाक्षविमानेषः, नीहा नेमुर्गवीश्वराः । गवेन्द्राश्च गर्वाभीष्ट !, गोअय इह गोऽवन ! ॥१५।। प्रीणाते आशु रोदस्यौ, मृदू अंही इमे इन ! । तव तौ नाऽनमन्नेत्य, कुधियोऽमी अहो इह ॥१६॥ प्रभो ! इत्या इमे भेजुः, किम्वजं किमु ईश्वरम् । त्वामपास्य परेऽस्यन्तं, यशोवाग्भ्यां दधि मधुम् ॥१७॥ ॥ प्रथमाऽध्यायस्य तृतीयः पादः ॥ भक्तियुङ् डुवते यस्ते, गुणान् सन्नपसद्म तान् । शश्वच्च वक्रवाग्युक्तः, स षण्णां रक्षकोऽङ्गिनाम् ॥१८॥ रुग्घीनद्विदृतौ दक्ष !, विष्वग्हित ! विपद्धर ! । वाक्छान्त ! सच्छमश्छान्तः, पुण्यैः खलु गुणैः प्रभो ! ॥१९॥ महश्शस्तः सहस्सार-षट् द्रव्यप्रचनश्चितम् । विरतश्छद्मतस्तन्या-ष्टङ्कस्त्वं मे स्मराऽश्मनि ॥२०॥ स्वामिश्चन्द्रसमांश्चारु- गुणांश्छिन्नमितींस्ततान् । शंसेत् पुमाष्टणत्कार-करान् विश्वे प्रशान् तव ॥२१॥ पुंस्कान्तको न पुंस्प॑ष्ठो-ऽपुंस्चलोऽपुंश्चलो भवेत् । त्वां पुंख्यातोऽत्र पुंशूरः, पुंष्ठकः पुंस्तमो नमन् ॥२२॥ त्वं न् प्रीणासि नूं: पासि, यथा संस्कारयुग् वचाः । सस्कर्ता भूतलं नेत-र्वच्मि कांस्कान् परास्तथा ॥२३॥ टि० : १. गोरभीष्टो गवाभीष्टः । २. गवि अग्यो गोअग्र्यः । ३. परतीर्थिकाः। ४. डुङ् शब्दे । ५. जगत्प्रसिद्धान् । ६. विपद् हरतीति। ७. ज्ञानम् । ८. 'प्रष्ठोऽग्रगे' (२।३।३२) षत्वम् । ९. प्रकृष्टः पुमान् । ३. अन्यतीर्थिकान् । श्लो० : १५. सू० २८-३१ । १६. सू० ३४, ३५ । १७. सू० ३४, ३७, ४१ । १८. सू० १।३।१, २ । १९. सू० ३, ४, ६ । २०. सू० ६, ७ । २१. सू० ८, ९ । २२. सू० ९ । २३. सू० १०, ११, १३ ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 142