Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________ 40 अनुसन्धान-५९ मातुर्विवाहोऽपि नोपलब्धः, तथा पितामहादयोऽपि न ददृशिरे, तस्माद् नाऽऽसीरनिति व्यवहर्तव्याः / अथ सर्वैरपि न दृश्यते, न पुरा वर्तमानः तीर्थनाथः, तर्हि एवंविधसंवेदनप्रभुभवानेव सर्ववित् / इति फलितं ममाऽपि मनोरथद्रुमैः / ___ अथवा अन्यत् सुधिया निवेद्यते / यथा पर्वतोदरनिलीना दूर्वाप्रवाला विलसन्तः सन्ति अनुपलभ्यमाना अपि / तथा देवोऽपि तीर्थेश्वरो दूरदेशे निलीनोऽपि महाविदेहे सम्भाव्यते / तस्मात् तृतीयहेतुदोषोऽयं भवदीयानुमानेन / अतः "असिद्धं सिद्धसेनस्य, विरुद्धो मल्लवादिनः / द्वेधा समन्तभद्रस्य, हेतुरद्वयसाधने // " इत्याद्यपि भावनीयम् / हेतौ निरस्ते व्याप्त्यादीनि भवदीयानि निरस्तानि / सद्यः समर्थितः सर्वभाववित् भवतां पुरः / तस्मात् स्पर्शनादिभिरनुपलभ्यमानत्वादिति हेतुः असिद्धोऽपि अद्वयसमर्थयिता / तथा रवेः शशिनो वा राहुद्वयं नभसि वर्तमानं सर्ववादविदमन्तरा नाऽवसीयते / शुभाशुभस्वरूपं हि तारासमूहबाधादिस्वरूपं न मनसा बुध्यते / औषधवैद्यकशास्त्रप्रभावो न वेद्यते तं विना / तस्माद् नभसि श्यामताभ्रम इव भित्तिरूपद्विरदसरोवरशैलादिष्विव निम्नानिम्नत्वभ्रमः सर्ववेत्तु-निषेधोऽपि मीमांसाबुद्धानां भ्रमायते // कादिवर्गत्रयपरिहारेण दृब्धा सर्वज्ञसिद्धिः श्रीविमलसूरिशिष्यैः श्रीअजितसिंहसूरिभिः // सर्वज्ञाभावनिराकरणम् इह केचिदहङ्कारशिखरिशिखामध्यमध्यारूढाः सारासारविचारकरणचातुरीव्यामूढाः कूर्चालसरस्वतीतिबिरुदमात्मनः पाठयन्तः स्वगल्लझल्लरीझत्कारेणाऽविद्यानटी नाटयन्तः सकलतार्किकचक्रचक्रवर्तिचूडामणिमात्मानं मन्यमानाः सर्वज्ञसत्तां प्रति विप्रतिपद्यमानाः अतुच्छमात्सर्याद्यनणुगुणमत्कुणतुल्यकल्पाः सङ्कल्पितानल्पविकल्पाः मुग्धजनमनःसदनागतदेवाधिदेवादिपर्युपासनावासनाधनलुण्टाकाः प्रजल्पन्ति जल्पाकाः - किं सर्वज्ञः प्रत्यक्षेण साक्षात्क्रियते

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161