Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 76
________________ जून २०१२ के पुनस्ते ? कठिन-व्यास - वशिष्ठ - ऋषिशृङ्ग-विश्वामित्रप्रभृतयो ब्रह्मऋषयो नीचकुले प्रसूताः च लोकस्य ब्राह्मणाः । तस्मादस्य वचनस्य प्रामाण्यादनियतोऽयं ब्राह्मणप्रसङ्गः । इति शूद्रकुलेऽपि ब्राह्मणो भवति । किं चाऽन्यद् भवदीयं मतम् ? “मुखतो ब्राह्मणा जाताः, बाहुभ्यां क्षत्रियः श्रुतः । ऊरुभ्यां वैश्यः सञ्जातः, पद्भ्यां शूद्रस्य सम्भवः ॥" ६९ अत्रोच्यते ब्राह्मणा बहवः । न ज्ञायन्ते कतरे मुखतो जाता ब्राह्मणा: ? इह हि कैवर्तरजकचाण्डालकुलेष्वपि ब्राह्मणाः सन्ति । तेषामपि बोडाकरण-मुञ्जकाण्ठादिभिः संस्काराः क्रियन्ते । तेषामपि ब्रह्मसंज्ञा क्रियते । तस्मादपि ब्राह्मणबहुत्वादपि पश्यामः एकवर्णोऽयं नाऽस्ति चातुर्वर्ण्यमिति । अपि च एकपुरुषोत्पन्नानां कथं चातुर्वर्ण्यम् ? इह कश्चिद् देवदत्त एकस्याः स्त्रियः चतुरः पुत्रान् जनयति, न च तेषां वर्णभेदोऽस्ति अयं ब्राह्मणः, अयं क्षत्रियः अयं वैश्यः अयं शूद्र इति । कस्मात् ? एकपितृत्वात् । एवं ब्राह्मणादीनां कथं चातुर्वर्ण्यम् ? = इह हि गोहस्त्यश्वमृगसिंहव्याघ्रादीनां पदविशेषाः दृष्टाः गोपदमिदं हस्तिपदमिदमश्वपदमिदं मृगपदमिदं सिंहपदमिदम् । न च ब्राह्मणादीनामिदं ब्राह्मणपदमिदं क्षत्रियपदमिदं वैश्यपदमिदं शूद्रपदम् । अतः पदविशेषाभावादपि पश्यामः एकवर्णोऽयं नाऽस्ति चातुर्वर्ण्यम् । इह गोमहिषाश्वकुञ्जरखरवानरछागएडकादीनां भगलिङ्गसंस्थानमलगन्धध्वनिविशेषो दृष्टो, न तु ब्राह्मणक्षत्रियादीनाम् । अतोऽप्यविशेषादेकवर्ण इति । अपि च यथा हंसपारापतशुककोकिलशिखण्डिप्रभृतीनां रूपवर्णलोमतुण्डविशेषो दृष्टः, न च तथा ब्राह्मणादीनाम् । अतोऽप्येकवर्ण इति । तथा च वटबकुल– पलाशाशोकतमालनागकेसरशिरीषचम्पकप्रभृतीनां वृक्षाणां विशेषो दृष्टः, यद्वत् दण्डतश्च पत्रतश्च पुष्पतश्च फलतश्च त्वगस्थिबीजरसगन्धतश्च । न तथा ब्राह्मणक्षत्रियविट्शूद्रानामङ्गप्रत्यङ्गविशेषः । न च त्वगुधिरमांसास्थिशुक्रमलवर्णसंस्थानविशेषो वाऽपि प्रसवविशेषो दृश्यते । अतोऽप्यविशेषादेकवर्णो भवति । अपि च भो ब्राह्मण! सुखदुःखजीवितबुद्धिव्यापारव्यवहारमरणोत्पत्तिभयमैथुनोपचारसमतया नाऽस्त्येव विशेषो ब्राह्मणादीनाम् ।

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161