Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 71
________________ ६४ अनुसन्धान-५९ किञ्चित्साधर्म्यद्वारेण मुख्यार्थस्पर्शित्वात् । नभसो हि सर्वव्यापकत्वं मुख्यं परिमाणम्। तत् तदाधेयघटपटादिसम्बन्धिनियतपरिमाणवशात् कलितभेदं सत् प्रतिनियतदेशव्यापितया व्यवह्रियमाणं घटाकाशपटाकाशादि-तत्तव्यपदेशनिबन्धनं भवति । तत्तद्धटादिसम्बन्धे च व्यापकत्वेनाऽवस्थितस्य व्योम्नोऽवस्थान्तरापत्तिः । स्वतश्चाऽवस्थाभेदेऽवस्थावतोऽपि भेदः, तासां ततोऽविष्वग्भावादिति सिद्धं नित्यानित्यं व्योम इति व्योम्नो नित्यानित्यत्वव्यवस्थापनम् ॥ प्रमाणसाधनोपायनिरासः शुभवद्भिर्भवद्भिरायुष्मद्भिः स्वाभिमतसाध्यसाधनाय यत् प्रमाणमभ्यधायि तत् कोविदवृन्दधुरन्धरैर्माद्यत्कुवादिफलदनर्दनदुर्धरसिन्धुरैरस्माभिर्विचार्यमाणं न चतुरचेतश्चमत्कारकारि । तत् प्रमाणं निश्चितमभिधीयते अनिश्चितं वेति विकल्पयुगली कुलाचलस्थूलदन्तयुगलीवाऽवतरति । न तावदनिश्चितात्, अनिश्चितस्याऽप्रमाणत्वविशेषात्, उन्मत्तकविरुतवत् । अथ निश्चितं किमप्रमाणाद् [प्रमाणाद्] वा ? न तावदप्रमाण[णादप्रमा]णस्य निश्चायकत्वायोगात् । यद्यप्रमाणमपि निश्चायकं संगीर्यते, तर्हि प्रमाणपर्येषणं विशीर्यते नैरर्थक्यादेव । प्रमाणापदपि (?) निश्चायकत्वाभ्युपगमात् । अथ प्रमाणात्, तत् किमलक्षणं लक्षणोपेतं वा ? अलक्षणं चेद् निश्चायकं प्रमाणं, तहि सर्वप्रमाणानां लक्षणाभिधानमनर्थकं, तद्व्यतिरेकेणाऽपि अर्थनिश्चयसिद्धेः, भवदभिप्रेतालक्षणनिश्चायकप्रमाणवत् । अथ लक्षणोपेतं वा, तत्राऽपि विकल्पयुगलमनिवारितप्रसरं धावति - तद् लक्षणं निश्चितमनिश्चितं वा ? न तावदनिश्चितं लक्षणं [लक्ष्यं] लक्षयति । [निश्चितं चेत् स] निश्चयोऽपि प्रमाणा[दप्रमाणा]द् वा ? [अप्रमाणा]द् निश्चयासिद्धेः प्रमाणाद(दि)ति वक्तव्यम् । तदप्यलक्षणं सलक्षणं वा? अलक्षणत्वे पूर्वस्याऽर्थग्रहणे किं झूणम्(क्षुण्णम्) ? सलक्षणं [चेत्] तल्लक्षणं निर्णीतं चेति तदेवाऽऽवर्तते । तद् न प्रमाणेनाऽर्थसाधनोपायोऽस्ति इति प्रमाणसाधनोपायनिरासः ॥ वज्रशूचीप्रकरणम् (-बौद्धाचार्य अश्वघोष) वेदाः प्रमाणं स्मृतयः प्रमाणं, धर्मार्थयुक्तं वचनं प्रमाणम् । यस्य प्रमाणं न भवेत् प्रमाणं, कस्तस्य कुर्याद् वचनं प्रमाणम् ? ॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161