Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१२
इह भवतां यदिष्टं सर्ववर्णप्रधानं ब्राह्मणवर्ण इति । वयमत्र ब्रूमः । कोऽयं ब्राह्मणो नाम ? किं जीवः ? किं जातिः ? किं शरीरम् ? किं ज्ञानम् ? किमाचारः ? किं कर्म ? किं वेद इति । तत्र तावद् जीवो ब्राह्मणो न भवति । कस्मात् ? वेदप्रामाण्यात् । उक्तं हि वेदे - "ॐ सूर्यः पशुरासीत् । सोमः पशुरासीत् । इन्द्रः पशुरासीत् । पशवोः आद्यन्ते देवाः पशवः । श्वपाका अपि ब्राह्मणा भवन्ति ।" अतो वेदप्रामाण्याद् मन्यामहे जीवः तावद् ब्राह्मणो न भवति । भारतप्रामाण्यादपि । उक्तं हि भारते -
"सप्त व्याधा दशाऽरण्ये, मृगाः कालिञ्जरे गिरौ । चक्रवाकाः सरित्तीरे हंसाः सरसि मानसे ॥
तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥" अतो भारतप्रामाण्यात् व्याधमृगहंसचक्रवाकदर्शनसम्भवाद् मन्यामहे जीवः तावद् ब्राह्मणो न भवति । न च धर्मप्रामाण्यादपि । उक्तं हि मानवे धर्मे -
"अधीत्य चतुरो वेदान्, साङ्गोपाङ्गान् सलक्षणान् । शूद्रात् प्रतिग्रहग्राही, ब्राह्मणो जायते खरः ॥ खरो द्वादशजन्मानि, षष्टिजन्मानि शूकरः ।
श्वानः सप्ततिजन्मानि, इत्येवं मुनिरब्रवीत् ॥" अतो मानवधर्मप्रामाण्याद् जीवः तावद् ब्राह्मणो न भवति ।
जातिरपि ब्राह्मणो न भवति । कस्मात् ? श्रुतिप्रामाण्यात् । उक्तं स्मृतौ श्रुतौ वा -
"हस्तिन्यामबलो जातः, उलूक्यां केशकम्बलः । अगस्त्योऽगस्तिपुष्पाच्च, कौशिकः कुशसंस्तरात् ।। कठिनात् कठिनो जातः, शरगुल्माच्च गौतमः । द्रोणाचार्यस्तु कलशात्, तित्तिरिस्तित्तिरीसुतः ।। रेणुका जनयेद् रामं, ऋषिशृङ्गं वने मृगी । कैवर्ती जनयेद् व्यासं, काश्यपं चैव शूद्रिका ॥ विश्वामित्रं च चाण्डाली, वशिष्ठं चैव उर्वशी । न तेषां ब्राह्मणी माता, लोकाचाराच्च ब्राह्मणाः ॥"

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161