SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ जून - २०१२ इह भवतां यदिष्टं सर्ववर्णप्रधानं ब्राह्मणवर्ण इति । वयमत्र ब्रूमः । कोऽयं ब्राह्मणो नाम ? किं जीवः ? किं जातिः ? किं शरीरम् ? किं ज्ञानम् ? किमाचारः ? किं कर्म ? किं वेद इति । तत्र तावद् जीवो ब्राह्मणो न भवति । कस्मात् ? वेदप्रामाण्यात् । उक्तं हि वेदे - "ॐ सूर्यः पशुरासीत् । सोमः पशुरासीत् । इन्द्रः पशुरासीत् । पशवोः आद्यन्ते देवाः पशवः । श्वपाका अपि ब्राह्मणा भवन्ति ।" अतो वेदप्रामाण्याद् मन्यामहे जीवः तावद् ब्राह्मणो न भवति । भारतप्रामाण्यादपि । उक्तं हि भारते - "सप्त व्याधा दशाऽरण्ये, मृगाः कालिञ्जरे गिरौ । चक्रवाकाः सरित्तीरे हंसाः सरसि मानसे ॥ तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥" अतो भारतप्रामाण्यात् व्याधमृगहंसचक्रवाकदर्शनसम्भवाद् मन्यामहे जीवः तावद् ब्राह्मणो न भवति । न च धर्मप्रामाण्यादपि । उक्तं हि मानवे धर्मे - "अधीत्य चतुरो वेदान्, साङ्गोपाङ्गान् सलक्षणान् । शूद्रात् प्रतिग्रहग्राही, ब्राह्मणो जायते खरः ॥ खरो द्वादशजन्मानि, षष्टिजन्मानि शूकरः । श्वानः सप्ततिजन्मानि, इत्येवं मुनिरब्रवीत् ॥" अतो मानवधर्मप्रामाण्याद् जीवः तावद् ब्राह्मणो न भवति । जातिरपि ब्राह्मणो न भवति । कस्मात् ? श्रुतिप्रामाण्यात् । उक्तं स्मृतौ श्रुतौ वा - "हस्तिन्यामबलो जातः, उलूक्यां केशकम्बलः । अगस्त्योऽगस्तिपुष्पाच्च, कौशिकः कुशसंस्तरात् ।। कठिनात् कठिनो जातः, शरगुल्माच्च गौतमः । द्रोणाचार्यस्तु कलशात्, तित्तिरिस्तित्तिरीसुतः ।। रेणुका जनयेद् रामं, ऋषिशृङ्गं वने मृगी । कैवर्ती जनयेद् व्यासं, काश्यपं चैव शूद्रिका ॥ विश्वामित्रं च चाण्डाली, वशिष्ठं चैव उर्वशी । न तेषां ब्राह्मणी माता, लोकाचाराच्च ब्राह्मणाः ॥"
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy