________________
६४
अनुसन्धान-५९
किञ्चित्साधर्म्यद्वारेण मुख्यार्थस्पर्शित्वात् । नभसो हि सर्वव्यापकत्वं मुख्यं परिमाणम्। तत् तदाधेयघटपटादिसम्बन्धिनियतपरिमाणवशात् कलितभेदं सत् प्रतिनियतदेशव्यापितया व्यवह्रियमाणं घटाकाशपटाकाशादि-तत्तव्यपदेशनिबन्धनं भवति । तत्तद्धटादिसम्बन्धे च व्यापकत्वेनाऽवस्थितस्य व्योम्नोऽवस्थान्तरापत्तिः । स्वतश्चाऽवस्थाभेदेऽवस्थावतोऽपि भेदः, तासां ततोऽविष्वग्भावादिति सिद्धं नित्यानित्यं व्योम इति व्योम्नो नित्यानित्यत्वव्यवस्थापनम् ॥
प्रमाणसाधनोपायनिरासः शुभवद्भिर्भवद्भिरायुष्मद्भिः स्वाभिमतसाध्यसाधनाय यत् प्रमाणमभ्यधायि तत् कोविदवृन्दधुरन्धरैर्माद्यत्कुवादिफलदनर्दनदुर्धरसिन्धुरैरस्माभिर्विचार्यमाणं न चतुरचेतश्चमत्कारकारि । तत् प्रमाणं निश्चितमभिधीयते अनिश्चितं वेति विकल्पयुगली कुलाचलस्थूलदन्तयुगलीवाऽवतरति । न तावदनिश्चितात्,
अनिश्चितस्याऽप्रमाणत्वविशेषात्, उन्मत्तकविरुतवत् । अथ निश्चितं किमप्रमाणाद् [प्रमाणाद्] वा ? न तावदप्रमाण[णादप्रमा]णस्य निश्चायकत्वायोगात् । यद्यप्रमाणमपि निश्चायकं संगीर्यते, तर्हि प्रमाणपर्येषणं विशीर्यते नैरर्थक्यादेव । प्रमाणापदपि (?) निश्चायकत्वाभ्युपगमात् । अथ प्रमाणात्, तत् किमलक्षणं लक्षणोपेतं वा ? अलक्षणं चेद् निश्चायकं प्रमाणं, तहि सर्वप्रमाणानां लक्षणाभिधानमनर्थकं, तद्व्यतिरेकेणाऽपि अर्थनिश्चयसिद्धेः, भवदभिप्रेतालक्षणनिश्चायकप्रमाणवत् । अथ लक्षणोपेतं वा, तत्राऽपि विकल्पयुगलमनिवारितप्रसरं धावति - तद् लक्षणं निश्चितमनिश्चितं वा ? न तावदनिश्चितं लक्षणं [लक्ष्यं] लक्षयति । [निश्चितं चेत् स] निश्चयोऽपि प्रमाणा[दप्रमाणा]द् वा ? [अप्रमाणा]द् निश्चयासिद्धेः प्रमाणाद(दि)ति वक्तव्यम् । तदप्यलक्षणं सलक्षणं वा? अलक्षणत्वे पूर्वस्याऽर्थग्रहणे किं झूणम्(क्षुण्णम्) ? सलक्षणं [चेत्] तल्लक्षणं निर्णीतं चेति तदेवाऽऽवर्तते । तद् न प्रमाणेनाऽर्थसाधनोपायोऽस्ति इति प्रमाणसाधनोपायनिरासः ॥
वज्रशूचीप्रकरणम् (-बौद्धाचार्य अश्वघोष) वेदाः प्रमाणं स्मृतयः प्रमाणं, धर्मार्थयुक्तं वचनं प्रमाणम् । यस्य प्रमाणं न भवेत् प्रमाणं, कस्तस्य कुर्याद् वचनं प्रमाणम् ? ॥