Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१२
न च वाच्यं तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्ते इति । पुद्गलानां तत्तत्सामग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्याऽपि दर्शनात् । दृष्टो ह्याट्टैन्धनसंयोगवशाद् भास्वररूपस्याऽपि वह्नेरभास्वररूपकार्योत्पाद इति सिद्धो नित्यानित्यः प्रदीपः । यदापि निर्वाणादर्वाग् देदीप्यमानो दीपः तदापि नवनवपर्यायोत्पादविनाशभाक्त्वात् प्रदीपत्वात्वया त्वनित्य (अनित्यः प्रदीपत्वेन तु नित्य ?) एवेति प्रदीपनित्यत्वव्यवस्थापनम् ॥
व्योम्नो नित्यानित्यत्वव्यवस्थापनम् एवं व्योमाऽपि उत्पाद-व्यय-ध्रौव्यात्मकत्वाद नित्यानित्यमेव । तथाहि - अवगाहकानां जीवपुद्गलानामवगाहदानोपग्रह एव तल्लक्षणम्, अवकाशदमाकाशमिति वचनात् । यदा चाऽवगाहका जीवपुद्गलाः प्रयोगतो विलसातो वा एकस्माद् नभःप्रदेशात् प्रदेशान्तरमुपसर्पन्ति, तदा तस्य व्योम्नः तैरवगाहकैः सममेकस्मिन् प्रदेशे विभाग उत्तरस्मिन् च प्रदेशे संयोगः । संयोगविभागौ च परस्परं विरुद्धौ धौं । तद्भेदे चाऽवश्यं धर्मिणो भेदः । तथा च(चाऽऽ)हुः - "अयमेव हि भेदो भेदहेतुर्वा यद् विरुद्धधर्माध्यास: कारणभेदश्चेति ।" ततश्च तदाऽऽकाशं पूर्वसंयोगलक्षणापत्त्या विनष्टमुत्तरसंयोगोत्पादाख्यपरिणामानुभवात् चोत्पन्नमुभयत्राऽऽकाशद्रव्यस्याऽनुगतत्वाच्चोत्पादव्ययोरेकाधिकरणत्वम् ।
यथा च यदप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यमिति नित्य[त्वल]क्षणमाचक्षते तदपास्तम् । एवंविधस्य कस्यचिद् वस्तुनोऽभावात् । तद्भावाव्ययं नित्यमिति तु सत्यं लक्षणम् । उत्पादविनाशयोः सद्भावेऽपि सद्भावदन्वयिरूपाद्(?) यद् न व्येति तद् नित्यमिति तदर्थस्य घटमानत्वात् । यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते तदोत्पादव्यययोनिराधारत्वप्रसङ्गः । न च तयोर्योगे नित्यत्वहानिः ।
"द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः ।। क्व कदा केन किंरूपा, दृष्टा मानेन केन वा ? ॥" इति वचनात् ।
लौकिकानामपि 'घटाकाशं, पटाकाश'मिति व्यवहारप्रसिद्धः आकाशस्य नित्यानित्यत्वम् । घटाकाशमपि हि यदा घटापगमे पटेनाऽऽक्रान्तं, तदा पटाकाशमिति व्यवहारः । न चाऽयमौपचारिकत्वादप्रमाणमेव । उपचारस्याऽपि

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161