Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________ 46 अनुसन्धान-५९ सर्वज्ञसिद्धिः इह केचिदज्ञानमहामहीधरभराक्रान्तचेतसः सकलविमलकेवलबलविलोकिताशेषविशेषपदार्थसार्थस्य भगवतः सर्वज्ञस्य निराकरणार्थमित्थं प्रमाणपञ्चकाभावमुद्भावयन्ति / नाऽस्ति सर्वज्ञः, तद्ग्राहकप्रमाणपञ्चकाभावात्, खरविषाणवत् / तथाहि - न तावत् प्रत्यक्षं प्रमाणं सर्वज्ञसाधनायोत्सहते, तस्याऽतीन्द्रियत्वात्, प्रत्यक्षस्य चेन्द्रियविषयत्वात् / यत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमिति वचनात् / नाऽप्यनुमानम् / तद्धि लिङ्गलिङ्गिनोरविनाभावग्रहणे सति प्रवर्तते / यथा महानसादावग्निधूमयोरध्यक्षेणाऽयं धूमोऽग्नि विना न भवतीत्यविनाभावं निश्चित्य पर्वतनितम्बादौ गगनतलावलम्बिनीं बहलधूमलेखां विलोक्य तत्कारणभूतस्याऽग्नेः प्रतिपत्तिर्भवति / नैवं सर्वज्ञत्वाविनाभूतं किञ्चिल्लिङ्गमुपलभामहे, येन तत्कल्पना साध्वी स्यात् / नाऽप्युपमानं तत्साधनाय कक्षां बध्नाति / उपमानोपमेयसद्भावे तस्य प्रवर्तनात् / यथा नगरायातेन केनचित् कश्चिद् ग्रामवासी पृष्टः - कीदृशो गवय इति / स च प्रयुङ्क्ते - यथा गौः खुरककुद्विषाणसास्नालाङ्गलाद्यवयवसम्पन्नः तथा गवयोऽपीति वचनाकर्णनाहितसंस्कारस्य पश्चात् क्वचिदटव्यां पर्यटतो गवयदर्शनात् तस्य विमर्शः प्रवर्तते - यथा गौरुक्तलक्षणः तथाऽयमपि, तस्माद् गवय इति स प्रतिपद्यते / न चाऽमुकवत् सर्वज्ञ इति कल्पना युक्ता, तथाविधस्य कस्यचिदभावात् / नाऽपि शाब्दं प्रमाणं तदस्तित्वं साधयति / ततोऽपि तस्याऽप्रतिपत्तेः / तथाहि - यथा कश्चिद् दाहपाकाद्यर्थी कञ्चिदविप्रतारकं पुरुषविशेषमप्राक्षीत् - क्वाऽग्निरस्तीति / स चाऽभिधत्ते - अस्मात् कूटात् परत्र प्रविभागे वह्निः तिष्ठतीति तद्वचनानन्तरं प्रवृत्तस्य जाज्वल्यमानज्वालाकलापाकुले दाहपाकाद्यर्थक्रियाक्षमे हुतभुजि प्रतीतिर्भवति / नैवं सर्वज्ञशब्दादाप्तप्रयुक्तादपि सर्वज्ञप्रतिपत्तिर्भवति, तथातददर्शनात् / नाऽप्यर्थापत्तिरत्र गमिका / सा हि कार्यनिष्पत्त्यन्यथानुपपत्त्या व्यवस्थाप्यते / यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते पीनत्वस्याऽन्यथाऽनुपपत्तेर्निशि भुङ्क्ते इति गम्यते / न च सर्वज्ञसद्भावमन्तरेण कश्चिदर्थोऽन्यथा नोपपद्यते इति येन तद्भावः कल्प्येत / तस्मात् प्रमाणपञ्चकाभावादभाव एवाऽत्र प्रवर्तते इति / उक्तं च - "प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते / वस्तुसत्तावबोधार्थं, तत्राऽभावप्रमाणता // " इति /

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161