Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________ जून - 2012 अथेत्थमभिधीयते / किमिदं सर्वविद्विज्ञानं निराकारमाहोस्वित् साकारम् ? यदि निराकारं, न तेनाऽर्थपरिच्छेदः / साकारं चेत् तदपि किं स्वाकारमुताऽर्थाकारमिति विकल्पौ रागद्वेषाविवाऽभिप्रेतार्थव्याघातकरावनुधावतः / यदि स्वाकारं, पूर्वो दोषः / अर्थाकारं चेत्, तयर्थानामानन्त्याद् भिन्नजातीयत्वाच्च तत्तच्छबलरूपप्राप्त्या नैकस्याऽप्यर्थस्य याथात्म्यग्रहणं स्यात् / नैतदपि चतुरचेतसि चारु चकास्ति / विज्ञानस्याऽर्थग्रहणपरिणामाभ्युपगमात् / यदि ह्या विज्ञाने स्वाकारं समर्पयन्तीत्यभ्युपगम्यते तदैष दोषोऽनुषज्यते / यदा च विज्ञानमेवाऽर्थग्राहकत्वेन परिणमति, तदा अदो दूषणं कथं स्यात् ? तत्परिणामश्च वस्तुनोऽनेकस्वभावत्वादनेकरूपोऽन्यथाऽर्थपरिच्छेदानुप पत्तेः / तथाऽप्यतीता[ना]गतार्थग्रहणमनुपन्नमसत्त्वात् तेषामिति चेत् ? न, सर्वथासत्त्वानभ्युपगमात् / सतः सर्वथासत्त्वानुपपत्तेरसतश्चोत्पत्तिविरोधात् / खरविषाणादीनामप्युत्पत्तिप्राप्तेरतः तदा तेषां सतामेव वर्तमानत्वात् / वर्तमाना हि भावा तथातथापरिणामेनाऽतीतादिव्यपदेशभाजो भवन्त्यन्यथाऽवर्तमानत्वाद् वर्तमानत्वस्याऽप्यनुपपत्तिरिति भूत-भविष्यत्सकलपदार्थसार्थतत्त्वावबोधक: सुव्यवस्थितः सर्वज्ञ इति / इति सर्वज्ञसिद्धिनामप्रकरणम् ॥छः।। धर्मस्थापनस्थलम् आधारो यस्त्रिलोक्या जलधिजलधरार्केदवो(र्कादयो) यन्नियोज्या, भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः सम्पदस्ताः / आदेश्या यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते, श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शाश्वती शर्मलक्ष्मीम् // 1 // राज्यं सुसम्पदो भोगाः, कले जन्म सुरूपता / पाण्डित्यमायुरारोग्यं, धर्मस्यैतत्फलं विदुः // 2 // ततो सागरचन्द्रः कालिकाचार्यरूपं वृद्धं प्रत्युवाच- "हे जरन्! हितैषिणा मनीषिणा तीर्थङ्करप्रणीतो धर्मः परमदैवतवत् चिन्तनीयः, यत्प्रभावाद

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161