Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________ 54 अनुसन्धान-५९ विशदनिर्भासेन प्रत्यक्षेण तु साक्षात्क्रियते एव धर्मः / न च तदप्यसिद्धमिति वाच्यम् / अनुमानेन तत्सिद्धः / तथा[हि -] सूक्ष्मान्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः, प्रमेयत्वात् / यद्यत् प्रमेयं तत्तत् कस्यचित् प्रत्यक्षं, यथा मेरुपरमाण्वादिः / तथा प्रमेयश्चाऽयं धर्मः, तस्मात् कस्यचित् प्रत्यक्षः एव(वेति) सर्वज्ञसिद्धौ तत्सिद्धिः स्वतः सिद्धा / "यद्वा माऽस्तु प्रत्यक्षसिद्धो धर्मः / अनुमानात् तत्सिद्धिः केन निवार्यते? यतः तदतीन्द्रियार्थसार्थसिद्धये त्रिविधं सङ्गीर्यते - पूर्ववत् 1 शेषवत् 2 सामान्यतो दृष्टं च 3 / कारणात् कार्यवितर्कणं पूर्ववत् / यथा - रोलम्बगवलव्यालतमालमलिनः(न)त्विषः / वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः // कार्यात् कारणवितर्कणं शेषवत् / यथा सरित्प्रवाहदर्शनात् शिखरिशिखरोपरिप्रवर्षणाभ्यूहनं, गतिपूर्वकदेशान्तरप्राप्तिदर्शनाद् दिनकरेऽपि तथाऽभ्यूहनम् / सामान्यतो दृष्टं तदत्राऽपि प्रतिजनप्रसिद्धं तथाविधानुभवसिद्धम् / जगति विवर्तमानं कार्यजातमुज्जृम्भमानमालोक्यते, ततः तदनुरूपकारणमवश्यं तथा (मवश्यन्तया?) विधेयम् / यदुक्तं च - ___ 'नाऽकारणं यतः कार्य, नाऽन्यकारणकारणम् / अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः क्वचित् // ' दृश्यते चाऽत्र सकलमहीमण्डला(लमण्डना?)यमानो मानवः [कश्चित्], कश्चित् तदपरः सोदरदरीपूरणमात्रेऽपि कृतात्यन्तप्रयासः पुंस्याशः, प्रज्ञावज्ञातवाचस्पतिमतिप्रपञ्चः कश्चिद् विपश्चित्, तदन्यश्च सरलतरसीरलेखाविधानेऽप्यनभिज्ञः / एवं सुभग-दुर्भग-सरोग-नीरोग-कुलीन(नाऽ)-कुलीनत्वादिवैचित्र्यं विचित्रकारणनिबन्धनम् / तत्र शुभभावाविर्भावनिबन्धनं धर्मः, तद्विरुद्धानामधर्मः / यदामनन्ति सन्तः 'धर्माद् जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसप(म्प)त्तयः / कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः // 1 // '

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161