SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 54 अनुसन्धान-५९ विशदनिर्भासेन प्रत्यक्षेण तु साक्षात्क्रियते एव धर्मः / न च तदप्यसिद्धमिति वाच्यम् / अनुमानेन तत्सिद्धः / तथा[हि -] सूक्ष्मान्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः, प्रमेयत्वात् / यद्यत् प्रमेयं तत्तत् कस्यचित् प्रत्यक्षं, यथा मेरुपरमाण्वादिः / तथा प्रमेयश्चाऽयं धर्मः, तस्मात् कस्यचित् प्रत्यक्षः एव(वेति) सर्वज्ञसिद्धौ तत्सिद्धिः स्वतः सिद्धा / "यद्वा माऽस्तु प्रत्यक्षसिद्धो धर्मः / अनुमानात् तत्सिद्धिः केन निवार्यते? यतः तदतीन्द्रियार्थसार्थसिद्धये त्रिविधं सङ्गीर्यते - पूर्ववत् 1 शेषवत् 2 सामान्यतो दृष्टं च 3 / कारणात् कार्यवितर्कणं पूर्ववत् / यथा - रोलम्बगवलव्यालतमालमलिनः(न)त्विषः / वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः // कार्यात् कारणवितर्कणं शेषवत् / यथा सरित्प्रवाहदर्शनात् शिखरिशिखरोपरिप्रवर्षणाभ्यूहनं, गतिपूर्वकदेशान्तरप्राप्तिदर्शनाद् दिनकरेऽपि तथाऽभ्यूहनम् / सामान्यतो दृष्टं तदत्राऽपि प्रतिजनप्रसिद्धं तथाविधानुभवसिद्धम् / जगति विवर्तमानं कार्यजातमुज्जृम्भमानमालोक्यते, ततः तदनुरूपकारणमवश्यं तथा (मवश्यन्तया?) विधेयम् / यदुक्तं च - ___ 'नाऽकारणं यतः कार्य, नाऽन्यकारणकारणम् / अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः क्वचित् // ' दृश्यते चाऽत्र सकलमहीमण्डला(लमण्डना?)यमानो मानवः [कश्चित्], कश्चित् तदपरः सोदरदरीपूरणमात्रेऽपि कृतात्यन्तप्रयासः पुंस्याशः, प्रज्ञावज्ञातवाचस्पतिमतिप्रपञ्चः कश्चिद् विपश्चित्, तदन्यश्च सरलतरसीरलेखाविधानेऽप्यनभिज्ञः / एवं सुभग-दुर्भग-सरोग-नीरोग-कुलीन(नाऽ)-कुलीनत्वादिवैचित्र्यं विचित्रकारणनिबन्धनम् / तत्र शुभभावाविर्भावनिबन्धनं धर्मः, तद्विरुद्धानामधर्मः / यदामनन्ति सन्तः 'धर्माद् जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसप(म्प)त्तयः / कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः // 1 // '
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy