SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जून - 2012 55 ___ "विपक्षपक्षलतालवित्रमत्राऽनुमानमुदीरयामः / त्रिभुवनोदरविवरवर्ति सौभाग्यभाग्यादिवस्तुसमस्तमप्यविकलकारणजन्यं, कार्यत्वात् / यद्यत् कार्यं तत्तदविकलकारणजन्यं, यथा तथाविधमृत्पिण्डतन्तुसन्तानजन्यं घटपटप्रभृतिकम् / यदेवं तदेवम् / न चाऽयमसिद्धो हेतुः, पक्षे तद्भावात् / तदभावे भाग्यसौभाग्यादेः सदैव सद्भावोऽसद्भावो वा स्यात्, न तु कादाचित्कः / नाऽपि विरुद्धः, कारणं विना यत्नसहरैरपि कार्यस्याऽनुत्पादात् / अन्यथा खरविषाणादिभ्योऽपि सर्वथा कार्यसिद्धिः स्यात् / नाऽप्यनैकान्तिकः, विपक्षे तद्गन्धमात्रस्याऽप्यनुपलब्धेः इत्येतदुक्तप्रायम् / अतः सर्वदोषरहितादनुमानात् तत्सिद्धौ नाऽस्ति प्रतिवादिवादलेशस्याऽप्यवकाशः / तदेवं परोक्षावान्तरभेदेनाऽनुमानेन योगिप्रत्यक्षेण च तस्मिन् साधिते प्रत्यक्षपरोक्षाभ्यां प्रमाणाभ्यां तत्सिद्धिः संसिद्धा / "किञ्च शाब्दप्रमाणमपि तत्साधने साधीय एव / यतो न वयं यादृशतादृशेन प्रतिप(पा)दितवचनस्य प्रामाण्यमभ्युपगच्छामः / किन्त्वविसंवादिवचनस्य पुरुषविशेषस्य / अविसंवादिवचनत्वं च सर्वज्ञत्वाद् वीतरागत्वाच्च / सर्वज्ञत्वं चोक्तयुक्त्या साधि[तमे]व / तत्साहचर्याद् वीतरागत्वमपि स्वतः सिद्धमवसेयम् / तदेवं शाब्दप्रमाणेनाऽपि तत्सिद्धिरनिवार्या / "तथा उपमानप्रमाणस्याऽनभ्युपगमादेव न तद्रूषणमस्मत्पक्ष[क्ष]तिमावहति / अर्थापत्तेश्चाऽनुमानान्तर्भूतत्वात्, किं पृथक्प्रयासेन तत्साधने बाधने वा? तदेव(वं) प्रमाणसिद्धे धर्मे धर्मिणि सर्वेषामपि मतिमतामविसंवाद एवे"त्युदित्वाऽवस्थिते सागरेन्दौ वृद्धोऽभ्यधात् - "आचार्याः! तर्के भवतां भव्योऽभ्यासोऽस्ती'"त्युक्त्वा मौनमाश्रयत् / मा जानातु मां सागरोऽप्यहो! अस्य जरतो मद्गुरोरिव प्रमाणग्रन्थेष्वभ्यस्तिरिति विचिन्त्य स्वासनमश्रि(श्र)यत् // धर्मस्थापनस्थलः(लं) सम(मा)प्त:(प्तम्) //
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy