________________ अनुसन्धान-५९ वागर्थसंस्थापनम् अनुदिनमखर्वसर्वा-नवद्यविद्यानदीनदीष्णेभ्यः / नित्यमनुक्तेभ्यः प्रणमामि महासमुद्रेभ्यः // इह हि कूपमण्डूकः कोऽपि वावदूकष्टिट्टिभसन्निभप्रतिभः खण्डस्फुडितशब्दविद्याकाव्यादिदर्शनमात्रेण सर्वज्ञमन्यः फलितललितबदरीवनमात्रप्राप्तिप्राप्तसुरालयसाम्राज्यंमन्यो वन्यशृगालबालकल्पो जल्पाकतां कल्पयति / तथाहि - अहं शलाकापातमात्रेण कालिदासकृतं काव्यं त्रयी (कृतकाव्यत्रयी)मप्यक्षेपेणाऽऽक्षेपपरिहाराभ्यां व्याख्यानयामि / अतः तन्मानमर्दनाय किञ्चिदुपक्रम्यते / काव्यत्रयीं सर्वामन्यां तव प्रसादेनाऽहं मुञ्चामि / रघुकाव्यस्याऽऽद्यं श्लोकमेकं व्याख्यानय / तत्राऽप्युत्तरपादत्रयं मुक्तम् / आद्य एव पादः किञ्चित् पर्यनुयुज्यते / वागर्थाविवसम्पृक्ताविति वागर्थयोः शब्दपदार्थयोः को नाम सम्पर्कः ? सम्पर्को हि नाम सम्बन्धः / स च संयोगो वा स्यात् सम[वायो] वा तादात्म्यं वा तदुत्पत्तिर्वा / तत्र न तावत् शब्दार्थयोः संयोगः सम्भवति / तस्य द्रव्यद्वयवृत्तित्वात्, शब्दस्य च गुणत्वात् / किञ्च शब्दे चेद् वाच्योऽर्थः सम्बध्यते, तदा यत्र शब्दः तत्राऽर्थः / ततः करवालाचलजलानलानिलादिशब्दोच्चारणे तत्र करवालाद्यर्थसम्बन्धे मुखस्य छेदाऽभिघातक्लेददाहोड्डयनादिप्रसङ्गः / अथाऽर्थे शब्द: सम्बध्यते तदा प्रतिदिशं प्रतिप्रदार्थं शब्दसद्भावेन नित्यं कोलाहलः श्रूयेत। नाऽपि समवायः, तस्य द्रव्य-गुणयोः सम्भवेऽपि, शब्दस्याऽम्बरगुणत्वेन वाच्यार्थ-शब्दयोरसम्भवात् / अपि च वाच्योऽर्थो द्रव्यमेव (द्रव्यमेवेति न) / ततो यदा गौः शुक्लश्चलतीत्यादौ सामान्यगुणकर्माणि वाच्यानि / तदा तेषु न शब्दसमवायो, द्रव्ये एव गुणानां समवायात् / नाऽपि तदुत्पत्तिः सम्बन्धः / सा हि शब्दाद् वाऽर्थस्याऽर्थाद् वा शब्दस्येति द्विधा / तत्र यदि शब्दादर्था उत्पद्यन्ते, ततोऽहं राजा भूयासं, दरिद्रोऽहं कोटीश्वरो भूयासं, रोग्यहमारोग्यवान् भूयासमित्याद्याशीर्वादादेव तत्तदर्थप्राप्तिः स्यात् / अथाऽर्थात् शब्दा उत्पद्यन्ते, तदा वक्तृप्रयत्नमन्तरेणाऽपि प्रतिपदार्थं शब्दाः श्रूयेरन् / तथा च पूर्ववत् कोलाहलप्रसङ्गः /