________________ जून - 2012 57 अथ तादात्म्यसम्बन्धः, तदा क्षुराग्निमोदकादिशब्दोच्चारणे वक्तृवक्त्र-श्रोतृश्रवणयोः छेददाहपूरणादिप्रसङ्गो दुर्निवारः / न च सम्बन्धान्तरं शब्दार्थयोर्घटते / एवं च यथायथा शब्दार्थयोः सम्बन्धो विचार्यते, तथा तथा जीर्णपटीवत् शतधा विदार्यते / ततः सम्बन्धाभावात् शब्दार्थयो!पमानत्वं जाघटीति / किञ्च पार्वतीपरमेश्वरयोरुपमेययोर्वागर्थावुपमानीकृतौ स्तः, उपमानोपमेयभावश्च साधर्म्यमुपमेति वचनात् / तत्रोपमानोपमेययोः साधर्म्यमेकदेशेन वा सामस्त्येन वेति वाच्यम् / एवं हि मेरुरिव परमाणुः, कर इवाऽमेध्यं, तेज इव तमः, राजेव रङ्कः, गौरिव महिषः, सूर्य इव खद्योतः, हस्तीव मशक इत्यादावप्युपमानोपमेयभावप्रसङ्गः / अत्राऽपि सत्त्वप्रमेयत्वादिना साधर्म्यस्य सम्भवात् / अथ सामस्त्येन साधर्म्यमिति पक्षः कक्षीक्रियते, सोऽसम्भवी / सामस्त्येन साधर्म्यस्य कयोरपि पदार्थयोरभावात् / परस्परविलक्षणस्वभावत्वात् सर्वपदार्थानाम् / किञ्च सर्वसाधर्म्यविवक्षायां चन्द्र इव चन्द्रः, शम्भुरिव शम्भुरित्यादावेवोपमानोपमेयभावप्रसङ्गः, तत्रैव सर्वसाधर्म्यभावात् / न तु दर्पण इव चन्द्रः, चन्द्रवद् मुखं, मुखमिवाऽरविन्दं, अदोऽरविन्दमिवाऽदोऽरविन्द (?) मित्यादौ, अत्र सर्वसाधाभावात् / न चैकदेशसामस्त्याभ्यामन्यः साधर्म्यप्रकारोऽस्ति / तस्मात् साधाभावाद् गौरीश्वरयोर्वागर्थाभ्यां सहोपमानोपमेयभावोऽपि न संगच्छते / ततो यदि तव हृदि काचित् प्रतिभा पोस्फुरीति तदा वागर्थयोः सम्पर्क उपमानोपमेयभावश्च समर्थ(y)तामित्युपरमते पूर्वपक्षोऽयम् / उत्तरं - स्वाभाविकसामर्थ्य-समयाभ्यामर्थबोधनिबन्धनं शब्द इति / स्वाभाविकसामर्थ्यं च शब्दस्याऽर्थप्रतिपादनशक्तिर्योग्यतापरपर्याया, ज्ञानस्य ज्ञेयज्ञापनशक्तिवत् / समयश्च सङ्केतस्त्या(?)भ्यामर्थबोधनकारणं शब्द इति / ततोऽयुक्तमुक्तं शब्दार्थयोर्विचार्यमाणः कोऽपि सम्बन्धो न घटते इति / तादात्म्यतदुत्पत्त्याद्यभावेऽपि शब्दार्थयोर्योग्यताभिधानसम्बन्धसद्भावात् / ननु तादात्म्यादिसम्बन्धाभावे तयोर्योग्यताभिधानः सम्बन्धोऽपि कथम् ? न, नयनरूपयोः क्वचित्त[द?]भावेऽपि तदुपलम्भभावात् / न खलु स्फीतालोककलितसकलरूपेण समं लोचनस्य तादात्म्यं तदुत्पत्तिर्वाऽङ्गीक्रियते, प्रतीति