________________ जून - 2012 53 "नाऽपि शाब्दात् तत्सिद्धिः, विप्रतारकवचनस्य विसंवाददर्शनात् सर्ववचनेष्वविश्वासात् / नन्वाप्तप्रणीतस्यैव वचनस्य प्रामाण्यं, न शेषवचनानामिति चेत् ? तदप्यचारु / यतो न शृङ्गग्राहिकया आप्तोऽयमनाप्त इति निर्णेतुं शक्यं, तत्साधकप्रमाणाभावात् / "नवोपमानतः / यतः प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनमुपमानं समाख्यातम् / यथा गोर्गवयस्तथा / न च भवदभ्युपगतधर्मसदृशः कश्चित् प्रसिद्धधर्मोऽस्ति, येन तदुपमानेनाऽपि तत्सिद्धिः साध्यते / "न चाऽर्थापत्तेः / यतः कस्याऽप्यनुपपद्यमानस्याऽर्थस्याऽघटनायाऽर्थान्तरकल्पनमर्थापत्तिः / यथा पीनो देवदत्तो दिवा न भुङ्क्ते, रात्राववश्यं भुङ्क्ते इत्यर्थः / न चाऽत्र कस्याऽप्यर्थस्य तमृतेऽनुपपद्यमानताऽस्ति, यत्साधनार्थं भवदभ्युपगतं धर्ममुररीकुर्महे / "तदेवमभावप्रमाणगोचरचारितामालम्बतेऽसौ धर्मः / यथा चोक्तं - "प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते / वस्तुसत्तावबोधार्थं, तत्राऽभावप्रमाणता // " प्रयोगश्चाऽत्र - नाऽस्ति धर्मः, प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात् / यद्यत् प्रत्यक्षादिप्रमाणैर्नोपलभ्यते तत्तद् नाऽस्ति, यथा खरविषाणम् / तथा प्रत्यक्षादिप्रमाणैश्च नोपलभ्यते धर्मः, तस्माद् नाऽस्तीति धर्मः / " इति वृद्धेनोक्ते सति सागरचन्द्रोऽन्तः क्षुब्धोऽपि धाष्टर्यमवष्टभ्य प्रत्याचष्ट - "भोः प्रामाणिकः (क!) यत् तावदुक्तं प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात् नाऽस्ति धर्म इत्यादि तदेतत्सकलमप्युत्तालवातूलान्दोलिततूलजाललीलामावहति / यतो न खलु तुण्डताण्डवमात्रेणाऽभिमतार्थसिद्धिः / किन्तु प्रमाणेन / न तु प्रमाणमप्युक्तं तु तमयुक्तम् (?) / सर्वप्रमाणानां धर्मस्य साधकत्वेनैव प्रवृत्तिदर्शनात् / न क्वचिद् बाधकत्वेन / तथाहि - __"प्रमाणं प्रत्यक्ष-परोक्षरूपतया द्विधैवोज्जिहीते / तत्र प्रत्यक्षं द्विविधं - व्यावहारिकं नैश्चयिकं च / तत्र व्यावहारिकमिन्द्रियानुसारि, नैश्चयिकमतीन्द्रियज्ञानानुसारि / तत्र चाऽयमप्यतीन्द्रियो धर्मः तव न प्रतिभाते तदा कस्याऽपराधः ? अतः तदेतद् भवदुक्तं नाऽस्मदभ्युपगतबाधाविधायीति /